SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri K. मेधातिथिभाष्यसमलंकृता । [षष्ठः स्वकार्यमात्मोपासनं परमं प्रधानमस्येति खकार्यपरमः । अस्पृहः मनसाऽपि स्पृहा न क्वचित्कर्तव्या ॥ ९६ ॥ एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ॥ पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्म निबोधत ॥ ९७ ।। इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां षष्ठोऽध्यायः ॥ ६॥ चतुर्विधो धर्मश्चातुराश्रम्यम् । ब्राह्मणस्य सर्वमेतद्विहितम् । ननु च "एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विज" इति द्विजग्रहणमुक्रमे श्रुतम् । तस्य चानुपजातविरोधित्वात्रैवर्णिकार्थिता निश्चिता । अतश्चेदं ब्राह्मणग्रहणं त्रैवर्णिकप्रदर्शनार्थमेव युक्तम् । यद्येकवाक्यतोपक्रमोपसंहारयोर्न स्यात् । एकवाक्यत्वे तु बलवदुपक्रमार्थः शक्यः प्रतिपत्तुं कृत्स्नवाक्य पर्यालोचनया योऽर्थः स निश्चीयते । अतो द्विजग्रहणं ब्राह्मणपरतयोपसंहर्तव्यम् । अस्ति १० ब्राह्मणस्य द्विजातित्वम् । न तु सर्वेषु द्विजातिबु ब्राह्मण्यम् । अत्रापि द्विनशब्दार्थे संभवति नान्वयिनि लक्षणा न्याय्या। तथा च महाभारते शग्रस्यापि त्रैय आश्रमा: श्रूयन्ते “ शुश्रूषा कृतकृत्यस्येति " उपक्रम्य “आश्रमा विहिताः सर्वे वनयित्वा निरा. मिषम् "। पारिव्राज्यमित्यर्थः । नैवं तस्यायमर्थः । सर्व आश्रमास्तु न कर्तव्याः । किंतर्हि ? शुश्रूषयाऽपत्योत्पादनेन च सर्वाश्रमफलं लभते । द्विनातीन् शुश्रूषमाणो गार्ह१५ स्थ्येन सर्वाश्रमफलं लभते परिव्राजकफलं मोक्षं वर्जयित्वा । अतो ब्राह्मणधर्म एव चातुराश्रम्यमिति सिद्धम् ॥ ९७ ॥ इति भट्टवीरस्वामिमूनोभट्टमेधातिथिकृतौ मनुभाष्ये पष्ठोऽध्यायः ॥ ६ ॥ TODAV १फ-पूर्व । २ अ-ड-उपाश्रमाः श्रूयन्ते । ३ अ-क-ख-ड-ण-क्ष-+जगतीपतेः। ४ ख-मान्य काऽपि विधेर्वशादिति श्लोकः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy