________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९१.
अध्यायः]
मनुस्मृतिः। दश लक्षणानि धर्मस्य ये विप्राः समधीयते ॥
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ९३ ॥ पूर्वस्य विधेः फलकथनम् । अध्ययनात्फलश्रुतिरनुष्ठानश्रुत्यर्था ॥ ९३ ॥
दशलक्षणकं धर्ममनुतिष्ठन्समाहितः ॥
वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः ।। ९४॥ संन्यस्येदनृणः । यदा ऋणत्रयमपाकीर्ण तदा संन्यास इत्येवमर्थमेतत् । समानकाले प्रव्रज्यायां नाधिक्रियते । एवं संन्यासेऽपि । वेदान्ताविधिवत् । अविदितवेदान्तार्थस्य नास्ति संन्यासः । यद्यपि स्वाध्यायविध्यनुष्ठानाक्षिप्तं कर्म विधिशास्त्रवद्वेदान्तज्ञानमपि स्वाध्यायशब्दवाच्यत्वाविशेषात् तथापि वेदान्तानां पुनरुपन्यासो विशेषार्थः । तत्परेण भवितव्यम् । अथ संन्यस्येदिति कः शास्त्रार्थः । कोऽयं संन्यासो नाम ? ममेद- १० मिति परिग्रहत्यागः । ननु वेदसंन्यासिका इत्युक्तं तत्रेदं प्रतीयते । वेदस्य वेदार्थस्य वा संन्यासः । न च वैदिककर्मसिद्धयर्था ये प्रतिग्रहादयस्तेषां संन्यासः । इदमानंत्यमिच्छतामित्यध्ययनस्य ज्ञानप्राधान्येऽपि विहितत्वात् । अग्निहोत्रादीनां तु द्रव्यसाध्यत्वादसति ममकारे त्याग एव । स चायं धर्मापादको मृतभार्यस्य परनिष्ठस्य वा कृतसंप्रतिविधानस्य। वाजसनेयके हि पठ्यते “यदा प्रेष्यन्मन्यतेऽथ पुत्रमाह" इत्यादि। अग्निसमारोपणं च १५ तदा विहितम् अजीर्णस्य च " जरया ह वा एतस्मान्मुच्यत इत्यामनन्ति " । यानि चाद्रव्यसाध्यानि संध्योपासनादीनि नित्याग्निहोत्रादीनि तेषामनिषेधातंत्र आ अन्त्यादुच्छ्रासादधिकारः ॥ ९४ ॥
* संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् ॥
नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ ९५ ॥ वेदमभ्यस्येति वेदस्यात्यागमाह । दर्शितमेतत् । अभ्यस्यन्निीत शतृप्रत्ययान्तपाठो वा । पुत्रैश्वर्ये सुखं वसेत् । पुत्रग्रहणमुत्पन्नस्य पुत्रस्य अन्योऽपि यस्तत्स्थानः पौत्रादिस्तत्रापि युक्तो गृहान्तरन्यास इत्याहुः ।। ९५ ॥
एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः ॥ संन्यासेनापहत्यैनः प्राप्नोति परमां गतिम् ॥ ९६ ॥
२०.
* [संन्यसेत्सर्वकर्माणि वेदमेकं न संन्यसेत् ॥
वेदसंन्यासतः शूद्रस्तस्माद्वेदं न संन्यसेत् ॥] १ अ-वेदान्ते कः शास्त्रार्थः । २ फ-तत्रान्त्यादुच्छासाद-।
For Private And Personal Use Only