________________
Shri Mahavir Jain Aradhana Kendra
४९०
५
१०
१५
www. kobatirth.org
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् || तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ९० ॥
नद्यो गङ्गादयो भिद्यादयो नदाः केनचिदाधारसन्निवेशभेदेन रसभेदेन च नदीनदयोर्निर्देशभेदः । एकत्वविधानं तु रूढ्या लिङ्गभेदे मार्यादारशब्दवत् । संस्थितिराश्रयः । समुद्रो यथा सर्वजलाश्रय एवं गृहस्थः सर्वधर्माधिकृतवान् ॥ ९० ॥ चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः ॥
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ ९१ ॥
वृक्ष्यमाणोपन्यासार्थः श्लोकः । दशलक्षणानि यस्येति बहुव्रीहिः । लक्षणं स्वरूपम् । सेवितव्यः सर्वकालमनुष्ठेयः । उक्तानामप्येतेषां प्रधानत्वाय पुनर्वचनम् । ज्ञानकर्मसमुच्चयपक्षश्चानेन पुनर्वचनेन दृढ कृतः ॥ ९१ ॥
धृतिः क्षमा दमोsस्तेयं शौचमिन्द्रियनिग्रहः || धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ ९२ ॥
I
धृत्यादय आत्मगुणाः । तत्र धृतिर्नाम धनादिसंक्षये सत्वाश्रयः । यदि क्षीणं ततः किं ? शक्यमर्जयितुमिति । एवमिष्टत्रियोगादौ संसारगतिरियमद्दिशति प्रचलतश्चित्तस्य यथापूर्वमवस्थापनम् | क्षमा अपराधमर्पणम् । कस्मिंश्चिदपराद्धरि प्रत्युद्वेजनानारम्भः । दमः अनौद्धत्यं विद्यामदादित्यागः । अस्तेयं प्रसिद्धम् । शौचमाहारादिशुद्धिः । इन्द्रिय२५ संयम अप्रतिषिद्धेष्वपि विषयेष्वप्रसंग: । धीः सम्यग्ज्ञानं प्रतिपक्षसंशयादिनिराकरणम् । विद्याऽऽत्मज्ञानं कर्माध्यात्मज्ञानभेदेन धीविद्ययोर्भेदः । एतत्पैौनरुक्ततया धीविद्येति पठन्ति तन्न सम्यद् । भेदस्य दर्शितत्वात् । अन्यत्प्रसिद्धम् । अक्रोधः उत्पत्स्यमानस्या नुत्पत्तिः । क्षमा कृतेऽप्यपकारेऽपकारानारम्भः || ९२ ॥
२०
मेधातिथिभाष्यसमलंकृता ।
[ १४:
आधाने जन्मनि सति यावता कालेनाधिकारावगमो भवति तदेव ऋणश्रुत्या परिगृह्यते । ततश्च विदुषः सतः सत्यधिकारे यः कन्यां याचमानो न प्राप्नुयाद्यावत्सर्वतः पलितस्तस्य वानप्रस्थादावधिकारः । स ह्येतन्निश्चिनोति । यौवने व या कन्या सर्वतरमिदानीं याचते कथयन्त्यन्ये—कृष्णकेशस्यैवाघानं श्रुतं भार्यामरणं वर्जयित्वा न सर्वतः पलितेनाधातव्यमिति श्रुत्यर्थं व्याचक्षते । कर्मसंबन्धाद्गृहस्थः श्रेष्ठः । अत आश्रमस्यैव श्रेष्ठयमुक्तं भवति । त्रीनेतानिति । इदमपरं श्रेष्ठ कारणं यदन्येषामाश्रमाणां मरणम् । तदुक्तं "ज्ञानेनान्नेन च " इति ॥ ८९ ॥
1
एष एवार्थे दृष्टान्तेन दृढीक्रियते
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
-
१ फ-विदुषः सत्यधिकारे; अ-क-ड-ण-क्ष-तत्सत्यधिकारो यः । २ अ -ख-ड-यौवनेप्सया कन्या । ३ फ-कथमसौ कृष्णकेशस्यैवाधानं । ४ अ-ड-ख-क्ष- समधिकृतवान्; फ- सर्वधर्माधिकृतवान् । अ-ड- प्रधाद्वये ।