________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
४८९
प्रयोजकाशंका यद्येवं सर्वस्य न प्रयोजकानि सन्तु सर्वेषाम् । तस्मिन्सत्यनिवृत्तौ किं तेन निरूपितेन । योस्तैि विवाहप्रयोजकः सोऽस्तु । आश्रमान्तराणि प्रत्यक्षविधाने गाई. स्थस्य कथमुपपद्यन्त इत्येतदधिकृतं विवाहप्रयुक्तिं विना तु केनांशेने संगच्छते । उच्यते । यावदुक्तं सर्वेषामर्थसिद्धिरिति । सत्यम् । एकेन प्रयुक्तावन्यस्य प्रसंगादुपकारसिद्धौ न पृथक्प्रयोक्तृत्वकल्पना । यथा ब्रीहयः पुरुषार्थेन जीवनेन प्रयुक्ताः कर्मसु विनियुज्यन्ते । न कर्मणि धनार्जनं प्रयुज्यते । यथा वा विद्या सत्यपि वेदस्यानंधिकारे न प्रयुज्यते स्वाध्यायविधिनैव तत्सिद्धेः । एवमिह कामतः प्रवृत्तिसिद्धन कर्मश्रुतयः प्रयोक्तव्याः । तेनाकृतविवाहमपि कृत्यकर्मविधय उपपत्स्यन्ते । अतश्च यो ब्रह्मचर्य एव कथंचित्परिपक्वकषायः स न विवक्षते । ततः स द्वितीयत्वाभावान्नाधिकरिष्यते । अतश्च श्रौतेअनधिकारात्तादृशस्याश्रमन्तिरताऽऽपत्स्येत । अन्ये मन्यन्ते । नायं धनतुल्यो विवाहः । १० यथा धनेन विना जीवनमनुपपन्नमिति । स वै जीवेद्धनतः । एवं न स्त्रियमन्तरेण जीवनाभाव इत्यत एव न दृष्टं नियमिनः प्रयोजनं संभवतीति धर्माधिकारार्थोऽपि प्रयुक्तो विवाहः । अवश्यं चैतदेवं विज्ञेयमधिकारोत्पत्त्यर्थे यत्नः कर्तव्य इति । इतरथा हि कृतोसर्गस्याशुचित्वादधिकारांपैनये जननादि शुद्धकालावस्थे च संपादयतो न नित्यकर्मातिक्रमः स्यात् । ततश्च केनार्थेन मृतादिशुद्धौ क्लेशमादध्यात् । तदपि विहितमेवेति चेत् । १५ एवं तावन्मात्रस्यातिक्रमो न पुनर्विधिसहस्रस्य । अथोच्येत कस्य पुनर्विधेरयं व्यापारो यदधिकृतत्वसंपत्त्यर्थमधिकृतः स्यामिति पुरुषेण यत्नः कर्तव्य इत्युपदिशति । एतावदग्निहोत्रादिविधयस्ते यस्याम्नायस्तद्विषयां कर्तव्यतां गमयन्ति । न त्वनीनामुत्पत्तिं प्रयुञ्जते । अग्नयोऽपि काम्येषु लिप्सया प्रवर्तमानेन तदधिकारसिद्धयर्थमाधीयन्ते। तथाहि तेषु जातेष्वा. हिताग्नित्वे यावज्जीवश्रुतयः । भार्यावतश्चाधानेऽधिकारः । यथैवाधिकारिणमात्मानं २० कर्तुमग्नीनाधत्ते एवं भार्यामप्युपयच्छते अतो न कस्यचिद्विधेरों विहितो यदि नाग्निहोत्रादिप्वधिकारो जनयितव्यः । न च विवाहविधिरेव स्वार्थकर्तव्यतामवगमयति । नित्याग्निहोत्रादिश्रुतिवत्संस्कारकर्मत्वादाधिकारश्रवणभावाच्च । अत्र पूर्वे वदन्ति । ऋणत्रयापाकरणश्रुतिरस्ति "जायमानो वै ब्राह्मणस्त्रिभिणवा जायते” इत्यादि। एषा श्रुतिर्जातमात्रनिबन्धना । न चात्र जन्मद्वितीयमुपनयनाख्यमभिप्रेतं प्राक्ततास्तिर्यक्समानधर्मत्वात् । २५
फ-सन्ति । २ अ-क-ड-ण-क्ष-अर्थनिवृत्ते । ३ अ-क- ण-क्ष-योऽस्तु । ४ अ-डइत्येतदधिकृता विवाहप्रयुक्तिर्विषाहं विना तु केनांशेन- ५ फ-केन संगच्छते। ६ ख-सत्यप्यवैद्यस्यानधिकारे । ७ अ-ड-न त्वस्याद्वितीयस्याभावात् । ८ अ-क-ख-ड-क्ष-आश्रमान्तसणामाप.म्यते । ९फ-युक्तो । १० अ-ख-ड-ब-क्ष-शुद्धिकालपादयतो। ११ ख-ण-अवस्थौ। १२ फ-शुद्धथवधि। १३ फ-सहस्य । १४ -यदपि कृतत्व- अ-ड-क्ष-यदधिकृतमाधिकृतःस्यामिति पुरुषेण । १५ ख-ण-यस्यास्त्रयः । १६ खदिषु । १७ फ-श्रवणाभावाच । १८फ-ऋणवान्जायते ।
For Private And Personal Use Only