SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८८ मेधातिथिभाष्यसमलंकृता । [ षष्ठः स्वशब्दविधानादनाश्रमित्वात् " संवत्सरमनाश्रमीति " प्रायश्चित्तप्रसङ्गादिति चेत् वचनेनैवास्या व्यवस्थाया विदितत्वात्कुतः प्रायश्चित्तंप्राप्तिः । तस्माद्गृहस्थादितुल्यतया संन्यासिकं प्रशंसितुमाश्रमान्तरसंकीर्तनम् । तच्च समुच्चयं द्रढयितुं गृहस्थानमवस्थितिरेषामित्यर्थः । गृहस्थः प्रभवः स्थितिहेतुरेषामिति विग्रहः ॥ ८७ ॥ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः॥ यथोक्तकारिणं विन नयन्ति परमां गतिम् ॥ ८८ ॥ सर्वेषामपि चैतेषां वेदश्रुतिविधानतः ॥ गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्विति हि ॥ ८९॥ इदमयुक्तं वर्तते । वेदशास्त्रश्रुत्या गार्हस्थस्य विधानं प्रतिज्ञायते । इतरेषां च १० भर्तव्यत्वम् । गार्हस्थस्य प्रत्यक्षश्रुतिविधानेनैवाश्रमान्तराणां सद्भावः । सनिहिततपःस्मृतिभ्यो बलीयसी श्रुतिः । अयोच्येत नैवायमभिसंबन्धः क्रियते वेदश्रुत्याविधानादित्याभिसंबन्धः । सत्यपि चैतान्विविधाने गृहस्थस्य श्रेष्ठयं तद्भरणनिमित्तं स त्रीनेतानित्यनेन प्रतिपाद्यते । तत्र वक्तव्यं कथमाश्रमान्तराणां श्रुतत्वात् श्रौतत्वे च स्पष्टेयं स्मृतिविरुध्यते । प्रत्यक्षविधानाद्गार्हस्थ्यस्येत्यादिना यः संबन्धान्तरसंभवः । अथोच्येत "गृही भूत्वा वनी भवेत् वनी भूत्वा प्रत्रनेत्" इति जाबालश्रुतिमपेक्ष्य सर्वाण्येवाश्रुतानीति स्मृतिविरोधस्तावदपरिहृत एव । किं च नैषा श्रुतिर्विधात्री । न ह्येतत् श्रुतं " एवं वने वा विहर्तव्य॑मिमानि वनस्थेनैव कर्माणि कर्तव्यानीमानि प्रवनितेनेति"। यथाऽऽधानात्प्रभृत्या चरमेष्टी सर्व गृहस्थकर्म प्रत्यक्षतैव । नाँश्रमान्तरणाम्। केवलं नाममात्रं श्रूयते 'गृही भूत्वेत्यादि । । तस्मात्पूर्वापरविरुद्धं गार्हस्थ्यवेदमूलमाश्रामामार्णा२० मिवोपदेश्यम् । अत्रोच्यते । सत्यमाधानात्प्रभति गृहकर्माणि प्रत्यक्षश्रुतीनि कृतदारपरिग्रहस्य तत्र विवाहे प्रयुक्तिनिरूपणातिककर्म श्रुतिभिः प्रयुज्यते अग्निहोत्रादिभिः स्वाहाकारः श्रुतेरथापत्योत्पत्तिविधिना उत दृष्टेन पुरुषार्थेन । ___ न रागः स्त्रीमात्रं प्रयुके न विवाहम् । येन विना यन्न निष्पद्यते तत्तस्य प्रयोअकमिति न्यायः । रागिणां च स्त्रीमात्रेण गृह्यकनिवृत्तिः किमिति विवाहमपेक्षेरन् । २५ सत्यम् । यदि वचनान्तरे स्त्रीमात्रगमनं निषिद्धं स्यात् । समानेऽपि सर्वत्र वेदाधिगमे शास्त्रतो गम्यागम्यविवेकः । अतश्च धीरप्रकृतीनां न विवाहमन्तरेण स्वार्थसंपत्तिरिति युक्तै । वेदस्य १अ-ख-ड-ण-क्ष-प्रसङ्ग । २ फ-प्राप्तम् । अ-ड-प्रशंसयितुम् । ४ फ-विप्र । ५ फ-स्मृति । ६ फ-परिहर्तव्यानीमानि । ७ फ-आश्रमान्तराणां । ८ फ-गार्हस्थ्यं । ९ फ-आश्रमाणां चोपदेश्यम् । १० ड-ख-उपदिश्यते । ११ ख-ड-ण-प्रत्यक्षश्रुतानि तु । १२ फ-अनुरागः । १३ फ-युक्तरेव । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy