________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८७
अध्यायः]
मनुस्मृतिः । दर्शिता । अथवा अज्ञा अनात्मज्ञाः शास्त्राट्वगतात्मतत्वानवर्गतात्मतत्वा अपि तदुपासनापरा अलब्धचित्तस्थैर्यास्तेषां वेदः शरणं जपेन कर्मानुष्ठानेन तावत्या च विद्यया नरकेषु कीटपतङ्गादियोनिषु चानुपपत्तेः ।
इदमेव विजानतां कथं पुनर्विदुषां शरणमत आह । इदमन्विच्छता स्वर्ग एतावदेते कर्मकाण्डज्ञा आत्मन्यलब्धमनःप्रतिष्ठा वा तेषां कर्मानुष्ठानात्स्वर्गादिफलं लभ्यते। ५ इतरे त्यक्तसङ्गाः प्रेक्षणीयरागादिदोषज्ञा आत्मतत्त्वोपासनापरास्तेणमानन्त्यमपुनरावृत्तिरिति सर्वेषां वेद एव शरणं नान्यः पन्था अस्तीत्यर्थः ॥ ८४ ॥
अनेन क्रमयोगेन परिव्रजति यो द्विजः॥
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ८५ ॥ क्रमेण योगोऽनुष्ठानम् । आत्मज्ञानकर्मणोः समुच्चये यः क्रम उक्तस्तेन ऋणा- १० पाकरणं कृत्वेत्यर्थः । विधय पाप्मानमश्व इव रोमरजांसि तथैवात्मविद्यया । यथोक्तं " यथा पुष्करपलाश आपो न श्लिष्यन्त्येवमेतद्विदि पापं कर्म न श्लिष्यतीति "। परंब्रह्माधिगच्छति तद्रूणः संपद्यते निवृत्तभेदग्रह इति विद्याश्रमफलविधिः ॥ ८५ ॥
एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् ।।
वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥ ८६ ॥ १६ वेदस्य संन्यासः त्यागः स एषामस्तीति वेदसंन्यासिकाः । वेदशब्देन यांगहोमादेः कर्मणस्त्याग उच्यते । न पुनर्नपत्यागः । आत्मचिन्तनं तु विहितमेव । केवलं धनसाध्याः शरीरक्लेशसाध्याश्च तीर्थयात्रादय उपवासादयश्च निषिध्यन्ते । यानि त्वात्मैकसाधनसाध्यानि सन्ध्याजपादिककर्माणि तेषामनिषेधः । तदेतत्स्वस्थान एव दर्शयिष्यामः। आयेनार्धेन प्रव्रज्याश्रमोपसंहारः । उत्तरेण वेदसंन्यासिकस्य कर्मोपदेशप्रतिज्ञा ॥ ८६॥ २०
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥ ८७ ॥ ____ ननु च संन्यासिककर्माणि वक्ष्यामीति प्रतिज्ञयाऽऽश्रमानुक्रमणमप्रकृतं केचिदाहुर्न संन्यास आश्रमान्तरमत्रैवान्तर्भावोऽस्येति दर्शयितुम् । स च कस्मिगृहस्थेऽन्तर्भावितः गृहे हि वासस्तस्य । अन्यैस्तु प्रव्रज्यायां संगत्यागसामान्या- २५ घतो नास्यान्तर्भावे प्रयोजनं पुरुषधमैर्यतिधर्मैश्च न यागादावधिकरिष्यति । वैशेषिकैश्च
१फ-शास्त्रादनवडतात्मत्यात्मत्वात् । अ-क-ड-क्ष-शास्त्रादवयतात्मतत्वा । २फ-वा वृत्त्या, । ३ अ-लाभेन न वेति । इतरे-ड-ख-ण-लाभेन वितरे । ४ फ-सनाप्रेक्षणीय । ५ फोमाम्भसि।६ अ-निवृत्ति; ण-निष्कृत । ७ ण-योग। ८ फ-अतः स्वाध्यायः । ९ ख-ण-संन्यासिकर्माणि ।
For Private And Personal Use Only