SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८६ मेधातिथिभाष्यसमलंकृता । [षष्ठः पृथक्त्वम् । हरिसवर्णसोदकादिका उपनिषदो यो न वेद ध्यानेनैकाग्रया संततया मत्या न दायमुत्पादयति स न यथोक्तं क्रियाफलं लभते । अत आत्मा वेदान्ताभिहितस्वरूपो नित्यमाहारविहारकालं वर्जयित्वा ध्येय इति श्लोकार्थः। ___ अथवा यद्यपि प्रव्रज्याधिकारस्तस्थापि गृहस्थस्यापि क्रियाफलग्रहेण निर्देशः यदि क्रियाप्रधानः । अत एतदुक्तं भवति । यद्यप्यग्निहोत्रादीनि कर्माणि कुर्वते गृहस्था रहस्यविद्याविदश्च न भवन्ति या विद्याः कर्मसूपविष्टा उद्गीथा “अथवा यावती उद्गीथमन्वयन्ते" इत्यादिना तेन निपुणाः कर्मकाण्डज्ञा अपि न ततः परिपूर्णफलं चिरकालभावि लभन्ते । एषोऽर्थो वाजसनेयके छान्दोग्ये च श्रुतिद्वये निदर्शितः । “ यो वा एतदक्षरं गार्यविदित्वा यनते जुहोति तपस्तप्यते बहून्यपि वर्षसहस्राण्यंतवदेव तद्भवतीति" । तथा १० यदेव विद्यया करोति श्रद्धया उपनिषदा तदेव वीर्यवत्तरं भवति । छन्दोग्योक्तयस्तु यथोक्तामध्यात्मोपदिष्टां विद्यां विदित्वा करोति तस्यैव फलातिशयः । उक्तं च " तद्य इत्थं विदुर्य इमेऽरण्ये श्रद्धा तप इत्युपासते" इति (छान्दोग्ये १।१०।१)। यमभिसंभवतीत्यादिविजानतां कर्मकारिणामचिरादिमार्गेण ब्रह्मलोकप्राप्तिमेषां श्रुतिराह ।। ८२ ॥ एवमात्मज्ञानार्थ ध्येये विहिते वेदनपो न प्राप्तः तत्साधनतयाऽतस्तं विधत्ते १५ अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ॥ आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ ८३ ॥ जपमात्रमस्याभ्यनुज्ञायते न पुनर्गृहस्थादिवदभ्यासार्थमध्ययनम् । यज्ञेष्वधि अधियज्ञ विधाय कर्म ब्रह्मणमाधिदैविकमधिदैभवं देवताप्रकाशकमन्त्रास्तेषामेव विशेष आध्यात्मि कमिति । “अहं मनुरभवमहं भवमहं रुद्रेभिः" इत्यादि । वेदान्त इति यदभिहितं तदपि, २० कर्मज्ञानसमुच्चयं ब्रह्मत्वार्य दर्शयति ॥ ८३ ॥ इदं शरणमज्ञानामिदमेव विजानताम् ॥ इदमन्विच्छता स्वर्गमिदमानन्त्यमिच्छताम् ॥ ८४ ॥ इदमिति वेदाख्यं ब्रह्माचष्टे । सोऽपि ब्रह्मैव । तथा चोक्तं "द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति" ।। झते।' २५ अध्ययनेविज्ञानं तदर्थानुष्ठानेन निष्णातता । पूर्वस्य विधेरयमर्थवादः । अज्ञानामतदर्थविदां जपादिष्वधिकारेण । तथा च भगवता व्यासेन सिद्धि पकान १ अ-आहारविहारनिबद्धकालान; ख-आहारविहारकालानवर्जयित्वा-। २ अ-सहि । ३ खचिरकालं। ४ फ-वर्षसहस्राणि तावदेव । ५फ-परिषदा । ६ फ-विध्याय । ७ फ-अधिदैवं भवं । ८ फब्रह्मत्वाद्दर्शयति । ९ ड-क्ष-अध्ययनं तदार्थानुष्ठाने । १० अ-क-ख-ड-जपादिष्वपिकारेण; क्ष-जपादिध्वपिकारणे; फ-जपादिवानधिकारेण । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy