________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८५
भध्यायः]
मनुस्मृतिः। __संगांस्त्यक्त्वा सर्वान् । गवाश्वहस्तिहिरण्यदासभार्याक्षेत्रायतनादिषु ममेदमिति बुद्धिः संगः । तत्त्यागादेकारामतायाः परिग्रहणेन च । एनं प्रथममुपाश्रित्यैनं प्राधान्येन ततोऽनेन विधिना पूर्वोक्तेन क्रियाकलापेन बाह्याध्यात्मिकेनानुष्ठितेन ब्रह्मणि चिद्रूपेऽवतिष्ठते । न कर्माणि बध्नन्ति । सर्वद्वन्दैः शुभाशुभकर्मार्थैः सुखदुःखैर्विनिर्मुक्तो भवति ॥ ८१ ॥
ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम् ॥
न ह्यनध्यात्मवित्कश्चिक्रियाफलमुपाश्रुते ॥ ८२ ॥ ध्याने सति भवति ध्यानिकम् । ध्याने क्रियमाणे लभ्यते । किंतद्यदेतदनन्तरमभिशब्दितमुक्तमाभिमुख्येनं न तात्पर्येण प्रतिपादितम् । सुकृतदुष्कृतयोस्तयोः प्रियाप्रियहेतुत्वन्यासः । पुरुषस्य यदप्रियकर्तृत तज्ज्वरप्त्येव पीडाहेतुत्वमग्नेरिव दुरुपसर्पणदग्धत्वम् । यथा नाग्निदग्धोऽग्निं द्वेष्टि एवं पुरुषमप्यप्रियकारिणं मन्येत न प्रतिषेद्धा स्यात् । एतच्च ध्याने संति एकाग्रे चित्ते भवति । सर्वकालमेतद्धृदयेनाभ्यासितव्यम् । यथा सुखदुःखे इमे कर्मणः फलं न राजा सुखस्य ग्रामादेर्दाता अपि तु मदीयायासेन प्रथमोपसर्पणलाभः । पूर्वकृतं पुण्यं कर्म दातृ न राजा । एवं दण्डो नोद्वेनयिता कर्माणि मामुद्वेनयन्ति न राजा नापि शक्तोऽन्यः कश्चित् । एतत्सर्वदा ध्यातव्यं चिन्तयितव्यम् । यदपि १५ संसारवैराग्यजननायोक्तमस्थिस्थूणमित्यादि तदपि नित्यं भावनीयम् ।
न ह्यनध्यात्मवित् । अध्यात्म चित्तमत्रोच्यते । यदेतदभिशब्दितं न वेत्ति न निश्चिनोति नाभ्यासेन भावयति । अन्नक्रियार्थ दलेष परितष्टः परित्राजकस्य या भैक्षचर्या क्रिया ग्रामैकरात्रवासादिश्च न तत्फलं नोक्षाख्यं लभते । यावदस्थिस्थूणादिभावनया भावे. नैव निरभिलाषता सर्वत्र नोत्पन्ना यावच्च कर्मसु फलन्यासेन रागद्वेषप्रहाणं न कृतमित्यर्थः। २० तच्च नित्यं यदा एवं चित्तं पुज्यते ॥ तदा भवति नाकस्मादिति” अथवा " ब्रह्मण्येवावतिष्ठते " इति । एतस्य यदेतदभिशब्दितामति परामर्शः । ब्रह्मण्येवस्थानं ध्यानिकं न त क्रियानष्ठानमात्रलभ्यं किंतद्धयेयमित्यत आह । न ह्यनध्यात्मावदिति । आत्मानमधिकृत्य यो ग्रन्थो वेदान्तादि सोऽध्यात्मं न वेद । अथवाऽऽत्मन्यधि यो निर्वृत्तस्तदध्यात्मम् । यथाऽयमात्मा देहेन्द्रियमनोबुद्धिप्राणादिव्यतिरिक्तः नैषां नाशे नश्यति । २५ कर्ता कर्मणां भोक्ता तत्फलानां भेदग्राहाकृष्टस्य सर्वमेतद्भवति । यदा त्वयमपहतपाप्मा न दोषैर्न कार्यैः स्पृश्यत एकत्वादेष एव सर्वमिदं न ततोऽन्यव्यतिरिक्तमस्ति । प्रभासमात्रं
१ फ-परिग्रहग्रहणेन । २ फ-एवं। ३ फ-कर्माणि वक्ष्यति । ४ अ-वा; फ-तात्पर्येण । ५ फ-स्वयोः । ६ फ-अग्निरिव । ७ फ-दग्धत्वं । ८ फ-+भवति । ९ फ-मित्याद्यपि । १०फ-परामर्शनम् । ११ ब्रह्मण्याव । १२ फ-प्राग्भोक्ता । १३ अ-ब-ड-सर्वमेतद्वचनम् ।
For Private And Personal Use Only