SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४८४ ५ १० www. kobatirth.org यस्तावदयं कुटीरूपको देहस्तस्य दृष्टान्ते नदीकूलं वृक्ष इति न स्वेच्छयाऽग्निप्रवेशादिना त्यक्तव्यः । किन्तु तृष्णा तत्र न कर्तव्या । अनुद्दिष्टपूर्व आपातस्तदा भविष्य कर्मक्षयात् । वृक्षस्येव कूलस्थस्य न प्रत्युक्तं "नाभिनन्देत मरणम्” इति । ( श्लो. ४१ ) यस्तु लब्धज्योतिर्वशीकृतप्राणसंचारो मोहविकारनिगृहीतमनास्तेन पूर्वमुत्क्रमणं कर्तव्यं यथा शकुनिर्वृक्षं त्यजति। ग्राह इव ग्राहः । दुःखहेतुत्वसाम्यत् । तदाह कृच्छ्रात् प्राप्तिपूर्वकस्यापि यावच्छरीरं वस्तुसामर्थ्याद्भवत्येव कृच्छ्रपूर्वविप्रतिपत्तावेतदुच्यते ॥ ७८ ॥ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ॥ विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ७९ ॥ प्रीतिपरिता कृतैश्चित्तसंक्षोभो हर्षशोकादिलक्षणोऽनेनोपायेन परिहर्तव्यः । यत्किञ्चित्प्रियं करोति तन्म सुकृतस्य विशेष्यते तस्येदं फलं नैषं कर्ता मम स्नेहबुद्धया प्रियं न चायं में शात्रवं शक्नोति कर्तुं दुष्कृतं पीडाकरमित्येवं विमृश्य ध्यानयोगेन चित्ते भावयेत् । अतोऽस्य न प्रियकारिणि रागो नाप्रियकारिणि द्वेषो जायते । एवं कुर्वाणः सनातनं १५ शाश्वतं ब्रह्माभ्येति अभिर्मुखं प्राप्नोति । अर्चिरादिपथेन न व्यवधीयते । शाश्वतग्रहणादनावृत्तिः प्रतीयते ॥ ७९ ॥ २५ मेधातिथिभाष्यसमलंकृता । नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा ॥ तथा त्यजन्निमं देहं कृच्छ्राद्वाहाद्विमुच्यते ॥ ७८ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदा भावेन भवति सर्वभावेषु निःस्पृहः || तदा सुखमवाप्रोति प्रेत्य चेह च शाश्वतम् ॥ ८० ॥ 1 चित्तधर्मोपदेशोऽयम् । न स्पृहा कार्याऽभिप्रेतवस्तूपादानपरिहारेण निस्पृहत्वं अपि तु २० तत्कारणत्यागेन | भावश्चित्तधर्मो वाऽऽत्मनो वाऽभिलाषलक्षणः सर्वभावेषु पदार्थवचनो द्वितीयो भावशब्दः । सर्वग्रहणेनावश्यकर्तव्येष्वपि पानभोजनादिषु शरीरस्थितिहेतुष्वभिष्वङ्गो निषिध्यते । न पुनरिच्छा | साह्यस्य भाविनी वस्तुसामर्थ्यना बुभुक्षा पिपासा च । भिन्ना चेच्छा स्पृहार्तः । रागानुबन्धिनी दैन्यनिमित्ता स्पृहा । इच्छा तु भोजनादौ भुक्तपीताहारपरिणामसमनन्तरं स्वयं उपजायते ॥ ८० ॥ अनेन विधिना सर्वास्त्यक्तसङ्गाञ्छनैः शनैः ॥ सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ ८१ ॥ [ षष्ठः For Private And Personal Use Only ख - फ० प्रयुक्तं । ४ अ-ख-ड १ फ- अनुद्दिष्टोऽपूर्व । २ ख ड ण-यदा भविष्यति । सामान्यात् । ५ अ-ड- परिताप कृचित्तसंक्षोभः । ६ फ-यत् । ७फ - निष्पन्नं अहं भर्ता । ८ फ-एवं 'शक्तोति कर्तुं यन्ममायमप्रियं करोति तन्ममैव दुष्कृतं । ९ अ - अभिमुखः । १० अ - अनावृत्तः यतः । ११ अ - स्पृहा च । १२ फ-द्रव्य । १३ अ-ब-ड- समनन्तरमुपजायते ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy