SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । न चैतच्चोदनीयं एकसप्तशतं क्रतवो यावन्तो वा तेषां सर्वेषामनुष्ठानस्याशक्यत्वादनारम्योपदेशता स्यादिति । यतो दर्शनसंपत्यैवात्रानुष्ठान संपत्तिरंत एवोक्तं " सम्यदर्शनसंपन्न " इति ( श्लो. ७४ ) । सर्वे च क्रतवो दर्शनसंपादनीयाः । तथा चोक्तं "ज्ञानेनैवापरे विप्रा यजन्ते" इति । अथवा यांल्लोकानेतीत्यवच्छेदनिर्देशः स्वर्गकामः पुत्रकाम इति । अतीतानादिभेदग्रहवासितान्तरात्मानो दृष्टफललोभेनासत्येनैव प्रधाने पुरुषार्थे ५ प्रवर्तन्ते । यथा बालः पुष्ट्यर्ये औषधेन शिखा ते वर्धिष्यत इत्यसत्ययैव शिखावृद्ध्या प्रवर्त्यत इति केचित् । ४८३ अपरं मतं नित्यान्यत्र कर्माण्यभिप्रेतानि तान्यक्रियमाणानि प्रत्यवाय हेतुतया प्रतिबंधकानि । अतस्तैरनुष्ठीयमानैरसति प्रतिबन्धे उक्त वैदिकेश्चैव कर्मभिरिति । यद्यपि तानि न मोक्षार्थतया चोदितानि । 1 उग्रैरत्यन्तं शरीरतापहेतुभिः । तस्य ब्रह्मणः । पदं स्थानं ब्रह्मलोकं साधयन्ति स्वीकुर्वन्ति । अथवा तदीयपदं यादृशस्तस्याधिकारः सर्वेश्वरत्वं स्वातन्त्र्यं तद्रूपप्राप्तिरिति यावत् ॥ ७५ ॥ १० अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ॥ चर्मावनद्धं दुर्गन्धिपूर्ण मूत्रपुरीषयोः ॥ ७६ ॥ १५ 1 वैराग्यजननमेतत् । तिष्ठन्तु तावत् कृमिकीटपतङ्गादिशरीराणि जलौको भूमिसूतकीन नान्यदिदं मानुषशरीरं स्पृहणीयत्वेनाभिप्रेतम् । यत्पाताशङ्किन। नित्यभीता मनुष्यास्तन्मूत्रपुरीषकुटीगृहकमिव तदिदानीं कुटीगृहकेन निरूपयति । अस्थीनि स्थूणा इव तैरवष्टब्धम् । स्नायुना बद्धम् । मांसशोणिताभ्यां उपरि दिग्धलेपनम् । उपरि देहचर्मणा अवनद्धं तत उपरि अथवा आच्छादितम् । पूर्ण मुत्रपुरीषयोः । ओदनस्य पूर्ण २० इतिवत् षष्ठी ॥ ७६ ॥ For Private And Personal Use Only जराशोकसमाविष्टं रोगायतनमातुरम् ॥ रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ ७७ ॥ जरा च चरमे वयसि शरीरापचय हेतुरवस्थाविशेषः । आतुरं नित्यगृहीतं रोगः । रजस्वलं स्पृहयालुः सर्वपदार्थेषु तदसंपत्यां च महद्दुःखं सर्वस्मिन्सोढे अप्रतीकारमनिवर्त्य २१ *अत एतदवेक्ष्यम् । त्यजेदिदं शारीरं भूतानां भूविकाराणां मेदोमज्जा श्लेष्म मूत्रशुक्रशोणितानामयं वासस्ते ह्यत्र वसंत नात्मनोऽयं वासः सर्वगतत्वात्तस्य अतस्तृप्तता शरीरेण कर्तव्या ॥ ७७ ॥ १ फ-रिति । सर्वे च-फ- स्वेदजादीनां अन्यदिदं । ३ फ-यत्राङ्किन्मेनित्यमिता; अ-बक-ड-क्ष-भूमिसूतिभूमि । * * - अयं पाठः अ पुस्तक एव दृश्यते ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy