________________
Shri Mahavir Jain Aradhana Kendra
४८२
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ षष्ठः
गतिं संपश्येदुपासनाभिरनपावृतादिगुणविशिष्टं वेदान्ताभिहितरूपं निष्कल्मषमभिमुखीकुर्यात् । अकृता असंस्कृताः शास्त्रेणाऽत्मानो यैस्तैर्न शक्यं ज्ञातुम् ॥ १७३ ॥ सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते ॥
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनेन विनिस्तु संसारं प्रतिपद्यते ॥ ७४ ॥
अन्तरस्य विधेः फलमाह । सम्यग्दर्शनमनन्तरोक्तमात्मनो यथार्थज्ञानं तेन संपन्नः कृतसाक्षात्कारः कर्मभिर्न निबध्यते । संसारं नानुवर्तते कृतानां कर्मणां भोगेन क्षयादन्येषामकरणात् । न पुनरनेन केवलात् ज्ञानान्मोक्ष उक्तो भवति । दर्शनेनाऽऽध्यात्मिकेन वेदान्तोपदिष्टेन यो विरहितः केवलकर्मकारी संसारमेति ॥ ७४ ॥ अहिंसयेन्द्रियासङ्गैवैदिकैश्चैव कर्मभिः ॥
1
१ फ- आन्तरस्य । २ इ
५ फ- अथोच्यते । ६ फ-५५
तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् ।। ७५ ।।
इदं तु ज्ञानकर्मणोः समुच्चयान्मोक्ष इति श्लोकद्वयं ज्ञापकम् । पूर्वेण ज्ञानमुक्तमनेन कर्माण्युच्यन्ते । कानि पुनर्वैदिकानि कर्माणि येषां फलं तत्पदं प्राप्नोतीत्युच्यते । यानि तावत्काम्यानि येषां स्वविधिवाक्ये श्रुतमेव स्वर्गादिफलम् । तद्व्यतिरेकेण फलान्तरकल्पनायामतिप्रसङ्गः । संकीर्णफलताश्रयणं वाऽनर्थकं स्यात् । तावता च वाक्यार्थस्य १५ समाप्तेर्विध्यनपेक्षिततत्पदप्राप्तिलक्षणफलेन कथं संबन्धः । श्रुतेनैवान्त्रयिना विध्यर्थसंपन्ने विधिनापेक्षते । अत्रोच्यते । अस्त्येवात्र वाक्यान्तरं ' यज्ञेन तदाप्नोतीति' रहस्याधिकारे । ततश्च संयोगपृथक्त्वात्फलद्वयं युक्तम् । अतश्च सर्वेषामेव काम्यानामविच्छिन्नफलयोगिता परमपदप्राप्त्यर्थता च न विरोत्स्यते । तत्र च यागद्वयेन प्रयोगभेदेन स्वर्गापवर्गौ भवतः । न चात्र यज्ञविशेषः श्रुतो येन नित्यानामेतत्फलं स्यान्न काम्यानाम् | २० अथोच्येते । नित्येष्वश्रुतत्वात्फलावच्छेदस्याविरोधात्तद्विषयता युक्ता । न काम्येषु । तावतैव यज्ञेनेत्यस्य सर्व विषयत्वाला भादिति चेत् किमत्र फलश्रवणेन ? कर्तव्यतानिष्ठानि च वैदिकानि वाक्यानि । साच कर्तव्यताऽन्तरेण वैदिकं फलपदं यावज्जीवादिपदैरवर्गमितेति । तत्रापि फलसंबन्धो नापेक्षित एवं कल्प्यमानोऽधिकत्वान्नैकार्थ्यं यायात् । अतो यज्ञेनेति वाक्यमप्रतिष्ठमानं विविक्तेविषये सर्व यज्ञशब्दवाच्यं नित्यं काम्यं च गोचरयति । न चैतत्फलं काम्यानाम् । २५ अपवर्गकाम इत्यश्रुतत्वात् । एतदभिप्रायमेवोक्तं "कामात्मता न प्रशस्तेति” (अ.२श्लो.२)| महाभारतेsपि (गीता अ २ श्लो. ४७) “मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि " इति ॥ अतश्च भेदग्राहपरिष्टितान्तःकरणस्य तृष्णाविद्यावतोऽनिर्मुक्ता हंकारममकारस्याभिसहितपारोमितफलप्राभिः । इत्वभिधायफलविशेष चोदितत्वात्कर्तव्यमितिबुद्धया वर्तमानस्यापरिमितनिरशि रूपयति ।
-संपन्नं विधिर्नोपेक्षते । ४फ-न च तत्र ।
For Private And Personal Use Only