________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४८०
मेधातिथिभाष्यसमलंकृता ।
[ षष्ठः
धारणाभिश्च । ननु च किल्विषं पापं दोषश्च तदेव तत्रैतावद्वक्तव्यम् प्राणायामैर्धारणाभिश्चः दोषान्दहेत् । किं किल्बिषमित्यनेन ? किल्बिषमिति वाऽस्तु । किं दोषग्रहणेन ? उच्यते । दोषग्रहणमवश्यं कर्तव्यं विशिष्टस्य पापस्य प्राणायामैर्दा हो यथा विज्ञायेत न सर्वस्येति । दोषशब्देन हि रागादय उच्यन्ते । अतस्तन्निमित्त एव पापे उपचारो यथोक्तः । एवं ५ तर्हि तदेवं क्रियतां किंकिल्बिषमित्यनेन पादपूरणार्थमित्यदोषः । तत्रोत्पन्नस्य
Acharya Shri Kailassagarsuri Gyanmandir
पापस्य प्राणायामा दहना उच्यन्ते । धारणास्तु दोषानुत्पत्तिमेव कुर्वन्ति । काः पुन-रेता धारणाः ? शमयमादिभिर्नियमाद्विषयदर्शनाभिलाषेण प्रकृष्यमाणं मनो धार्यते तत्रैव स्थाने नियम्यते । ताश्च विषयगतदोषभावना " अस्थिस्थूणॉम् " इत्याद्याः कान्तिलावण्यतारुण्यसंस्थानशौर्यादयः स्त्रीषु दृश्यमाना अभिलाषहेतवः । ते च सविकल्पं प्रत्यक्ष--- १० ग्राह्याः । विकल्पाश्च मनोधाराः । अतो विकल्पान्तरैर्मूत्रपुरीषपूर्णं नामेति तस्मिविषयगतदोषभावे कटककर्पटान्वितं स्त्रीद्रव्यं नामाधिकं प्राणिनो यत्प्रत्नतः परिहर्त - व्यमभिलषन्ति याऽप्येषा सुखलेश भ्रान्तिः सा क्षणभङ्गिनी तदासेवनेन घोरा दीर्घकालाश्च यमयातना इत्यादिभिः शक्यन्ते निरोद्धम् । एतदेव तत्प्रसंख्यानमुच्यते । एवं भोजनादि - ध्वपि भावयितव्यम् । यदेतच्छक घृतपूर है यङ्गवीन पायसादि यच्च भैक्षं कदन्नादिभिः १५ सममेतच्छरीरधारणतया विशेषाभावात्कस्याचित्प्रकृतेर्जिह्वाग्रे क्षणलवमात्रत्रर्तमानस्य विशेषो, यः सविशेषतया प्रतिभासेत गन्धर्वनगर प्रख्येोऽयं क्षणिकावभासः इति । एवमन्यत्रापि स्पर्शदोषो भावयितव्य इत्येवमुपदिशति ।
अन्ये स्वाहुः । कौष्ठस्य वायोर्मुखनासिकासंचारिणः शरीरैकदेशान्तर्हृदयाकाशादभ्यासवतो धारणं धारणा । ननु च प्राणायामेभ्य एतासां साधारणानां को भेदः । २० बाहुललाटादावपि यथेच्छं व्याहृत्यादियनरहितं धारणा । प्राणायामा रेचनेनाधिक्रियन्त इति विशेषः ।
अन्ये तु "मैत्री मुदिता करुणा उपेक्षा एता धारणा " इति मन्यन्ते ( योगसू० १।१३) । “मैत्री कृपा मुदोपेक्षा सर्वप्राणिष्ववस्थिता । ब्रह्मलोकं नयन्त्याशु ध्यातारं धारणास्त्विमाः”॥ तत्र मैत्री द्वेषाभावो न सुहृत्स्नेहस्तस्य बन्धात्मकत्वात् । कृपा २९ करुणा चित्तधर्मः । दुःखितजनदर्शनेन कथमयमस्माद्दुः खादुद्धियेतेति समुद्धरणकामना । न त्वहिंसानुग्रहयोरनारम्भ इत्युक्तम् । अत एवेदमुच्यते । चित्तधर्मोऽयमभ्यसितव्यः । मुदिता शोकव्यावृत्तिर्व्याध्यदिनिमित्ते दुःखे नरकादिमयने व न तु हर्षः तस्य राग
१ फ - चेत्तत्रैतावद्वक्तव्यम्; ड-तत्रैव तावद्वक्तव्यम् । २ ड - उपपन्नस्य । ४ ड - ख - रागानुप्तत्तिमेव । ५ अग्रे ७६ श्लोके । ६ ड - इदमुच्यते । फलतया । ९ फ- सहितं ।
७ फ- तच्च ।
For Private And Personal Use Only
३ ड - दृश्यन्ते । ८ क - शरीरधारण