SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७९ अध्यायः] मनुस्मृतिः। अर्वा राव्या च याजन्तून्हिनस्त्यज्ञानतो यतिः ॥ तेषां स्नात्वा विशुद्धयर्थ प्राणायामान् षडाचरेत् ॥ ६९ ॥ जन्तून् क्षुद्रनन्तूनिति द्रष्टव्यम्। तेषां हिंसाया यप्तापं तद्विशुद्धमिति संवन्धः ॥१९॥ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः। व्यात्दृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ ७० ॥ ब्राह्मणशब्देन जातिधर्मतामाह । न परिव्राजकस्यैव विधिरयम् । त्रयोऽपि त्रिभ्य ऊर्ध्वं फलाधिक्यम्। त्रयस्त्ववश्यं कर्तव्याः । व्यात्दृतयः “ओंकारपूर्विका" इत्यत्र या उक्ताः। प्रणव ओंकारस्तैर्युक्ताः । प्राणायामकाल एतद्ध्यातव्यम् । एते त्रिविधाः कुम्भकरेचकपूरकाख्याः । तत्र च मुख्यस्य नासिक्यस्य च वायोर्बहिनिष्क्रमणनिरोधेन कुम्भकपूरकाख्याः अनुच्छृसतो बहिरन्तर्येण वायोरुत्सर्गेण रेचको भवति । अवधि. १५ र्द्वितीयाध्याय निदर्शितः । यदि वा तपसौ पुनर्यावता कालेन न पीडोपनायते ॥ ७० ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ॥ तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ७१ ॥ धातवः सुवर्णादयः तेषां ध्मायमानानां सुवर्णमेवावशिष्यते तथेन्द्रियाणां विषयदर्शने यौ प्रीतिपरितापौ जायेते तयोर्यत्पापं तस्य दाहः प्राणनिरोधात् । प्रीतिपरितापोत्पत्ति- २५ मुमुक्षोनिषिद्धा । सा तु शरीरिणः त्यक्तसंगस्यापि यादृच्छिकरूपशब्दाद्युपनतौ कयाचिन्मात्रया वस्तुसामर्थन नियतेन्द्रियस्याप्युपजायते अतस्तदोषनिवृत्त्यर्थाः प्राणायामाः॥ ७१॥ ___ प्राणायामैदहेदोषान्धारणाभिश्च किल्बिषम् ॥ प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ७२ ॥ प्राणायामैरित्येतत्पूर्वश्लोकेन दर्शितम् । अपरे त्वाहुः । दोषा रागादयस्तान्दहेत् । २० कथं प्राणायामैर्दग्धुमेते शक्यन्ते युक्तः पापस्य तैर्दाहः । अदृष्टा च तस्योत्पत्तिः शास्त्रलक्षणं तथा निवृत्तिरपि । रागादयस्तु प्रत्यक्षवेद्याः । * तेषां चं निव-निवर्तकभावः प्रत्यक्षादिवेद्य एव युक्तो भवितुं न शास्त्रीयः । यदि शास्त्रमेवं वदद्विरमणशीलं निवर्तयेदिति किंप्रमाणं भवेत् । तस्माद्रागादिनिमित्तमशुभाचरणं दोषशब्देनोच्यते । तस्य कार्यदाहीदाहः स्वरूपतो हि स्वरसत एव कर्मणां क्षणिकत्वान्नाशः । एष एव च दाहो २५ न त्वन्यस्येव भस्मीभावः * । एवं च पूर्व श्लोकार्थोऽनुवादः ।। - - १ ड-अन्हि रात्रौ । २ फ-जातिर्मता तामाह; ड-वर्णतामाह । ३ ख-तपःसंयुते; ड-संस्तुतेः । ४ ड-कालेन पीडोपजायते । ५ ड-तारसुवर्णादयः । ६ फ-यादृच्छिकशब्दाद्युपनतौ । ७ *-* एतचिन्हान्तर्गतभागः ख-ण-पुस्तकयोः ७१ श्लोकस्य टीकायामन्तर्हितः । ८ फ-प्राणायामानां । ९ फ-हिमेन शीतं; ण-विरमनसीतं । १० फ-किंप्रमाणी भवेत्; फ-प्रमाणी भवेत् । ११ फ-दाहोदाहः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy