SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाप्यसमलंकृता । [षष्ठः मूक्ष्मतां चान्ववक्षेत योगेन परमात्मनः ॥ देहेषु चैवोपपत्तिमुत्तमेष्वधमेषु च ॥६५॥ योगश्चित्तवृत्तिस्थैर्य यथा पतञ्जलिना दर्शितम् ( १।२ ) । तेनात्मनः क्षेत्रज्ञस्य सूक्ष्मतामन्यवेक्षेत शरीरादौ प्राणादौ वा नात्मबुद्धिः कर्तव्या । किं तर्हि योगजेन ५ ज्ञानातिशयेन सर्वेभ्य एतेभ्योऽन्तर्बहिस्तत्वेभ्यो व्यतिरिक्तो बोद्धव्य इत्येवंपरमेतत् । न तु स्थूलादिविकल्पा आत्मनः सन्ति । यथा चोत्तमेषु देवादिशरीरेष्वस्योपपत्तिः । शरीराधिष्ठातृतया फलोपभोगः सर्वगतस्यापि सतः एवमधमेषु तिर्यक्प्रेतपिशाचादिषु । एकत्वपक्षे परमात्मविभूतय एव क्षेत्रज्ञा इति स्थितिः । अतः परमात्मनो गतीरन्ववेक्षेतेत्युक्तम् ॥ ६५ ॥ भूषितोऽपि चरेद्धर्म यत्र तत्राश्रमे रतः ।। समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ६६ ॥ भूषितः कुसुमकटकाद्याभरणैः । धर्मः परिव्राजकस्य यद्विहितमात्मोपासनादि तद्यत्नतश्चरेत् । यस्मिन्नाश्रमे यो विहितस्तं चरेत् । न त्रिदण्डादिलिङ्गधारणमात्राद्यति मात्मानं मन्येत । अपि तु समः सर्वेषु भूतेषु स्यात् । रागद्वेषलोभान्यत्नतः परिहरेदिति १५ तात्पर्यम् । न लिङ्गत्यागे न भूषणाभ्यनुज्ञानम् ॥ ६६ ॥ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ॥ न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ६७॥ कलुषितमुदकं कतकवृक्षफले निक्षिप्ते प्रसीदति स्वच्छशुद्धरूपतामापद्यते । किंतु न तस्य फलस्य नामग्रहणेन तन्निर्मलीभवति । अपि त्वनुष्ठानमपेक्षते । एवं २० लिङ्गधारणं फलनामस्थानीयं न तावन्मात्रात्सिद्धिर्यावदेकारामतोपासनसर्वसमतादिधर्मो नानुष्ठितः । पूर्वशेषार्थवादः ॥ ६७ ॥ संरक्षणार्थ जन्तूनां रात्रावहनि वा सदा ॥ शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६८ ॥ यदुक्तं " दृष्टिपूतं न्यसेदिति " तस्य प्रयोजनप्रदर्शनश्लोकोऽयम् । शरीरस्या२५ त्ययेऽपि शरीरपीडायामपि सत्यां रात्रावहनि वा तृणास्तरणे शयनार्थमास्तीणेऽपि शरीरनिषङ्गोऽनवेश्यादृष्ट्वा कर्तव्योऽस्मिन्व्यतिक्रमे प्रायश्चित्तम् । अथवाऽत्यन्तसूक्ष्माः केचन क्षुद्रनन्तवो ये सर्वे शरीरावयवसंवलनमात्रेणैव नश्यन्ति तदर्थमिदम् ॥ १८ ॥ १ ड-चाप्यवेक्षेत । २ फ-समुप्तत्ति । ३ फ-दूषितोऽपि । ४ ड-सन् । ५ ड-भूषणायनुज्ञानम् । ६ फ-दृष्टिपूतं पादं न्यसेदिति । ७ फ-अल्पाः। ८ फ-क्षुद्रजन्तवः सर्वे । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy