SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७७. अध्यायः] मनुस्मृतिः। पतनं मूत्रपुरीषाद्यमेध्यस्थाने कृमिकीटादिजन्म यमगृहे च यातनाः कुम्भीपाकादयः ॥११॥ तथेदमपरमवेक्ष्यम् विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियः । जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥ ६२॥ अवेक्षतेति क्रियापदसंभवात् द्वितीया । प्रियाः पुत्रादयो बान्धवास्तैर्वियोगोऽप्राप्त- ५ काले मृतैः । अप्रियैः शत्रुसंग्रहगमनादिभिः संयोगः । जरया चतुर्थे वयस्यवस्थाविशेषो जरा तयाऽभिभवनं शरीराकारनाशः । अशक्तिः इन्द्रियवैकल्यकासश्वासादिव्याधिबाहुल्यं सर्वेषामकाम्यता उपहास्यतत्यादिवराभिभवः । व्याधिभिः प्रागपि जैरस उपपीडनं केषांचित् ॥ ६२ ॥ अथ महती तृष्णा एवंस्थितस्यापि भवति एवं तर्हि इंदमप्रतीकारं अनिच्छतो १० ऽप्युत्पद्यते देहादुत्क्रमणं चास्मात्पुनर्गर्भे च संभवम् ॥ योनिकोटिसहस्रेषु मृतीश्चास्यान्तरात्मनः ६३ ॥ प्राणानामुत्क्रमणमन्तर्विच्छेदः । दुःसहा च सा पीडा । गर्भे च संभवः । तत्र नानाविधं दुःखं इन्द्रियाणामनुद्भेदात्तमोरूपता कुक्षिस्थस्य मातृसंबंधिनाऽऽहारेण अति- १५ शीतोष्णेन हीनातिमात्रेण वैद्योक्ती पीडा। योनिकोटिसहस्रेषु सृतीः सरणानि प्राप्तास्तिर्यप्रेतकृमिकीटपतङ्गश्वाद्याः क्षेत्रज्ञस्य । ननु च विभुरन्तरात्मप्यते नित्यश्च । तस्य सकलजगद्व्यापिनः कुत उत्क्रमणं क च योनिसरणं संभवोऽपरि गर्ने नित्यस्यानुपपन्नः । उच्यते । अस्ति केषांचिद्दर्शनं यथाऽयमन्तःशरीरमंगुष्ठमात्रः पुरुषस्तिष्ठति तन्मात्रमनोबुध्यहंकारात्मकः स यावत्संसारमेति २० धर्मस्तस्य चोपचितस्य चैतन्यशक्तिराविति । अतस्तदीयधर्मा अन्तरात्मन उपचर्यन्ते । अथवा तस्य भावार्था ये प्राणादयस्तेषत्क्रामत्सु समुत्क्रामतीत्युच्यते । एवं संभवोऽपि द्रष्टव्यः । पुनश्चैतव्दादशे वक्ष्यामः । किं बहुना ।। ६३ ।। ___ अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ॥ धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ६४ ॥ __ अधर्मात्प्रभव उत्पत्तिः । दुःखेन यो योगः पीडानुभवः । धर्म उक्तलक्षणो यः पदार्थस्ततः सुखेनाक्षयेन योगः । एतदप्यवेक्ष्यम् । पारिवाज्यं च मुख्यो धर्म इत्यभिप्रायः ॥ ६३ ॥ २६ १ण-इत्यादिभिः । २ फ-जरमा । ३ फ-ह्ययम् । ४ फ-प्राणिपीडा '५ फ-अनुद्भेदकमावुभयतः। ६ फ-चोक्ता; फ विद्याक्ता । ७ फ-चित्तस्य । ८ फ-गर्भोभवति । ९ फ-एतदप्यन्त्य ! For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy