________________
Shri Mahavir Jain Aradhana Kendra
४७६
५
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ षष्ठः
ईदृशे काले यदि कुतश्चिन्न लभ्यते तदा विषादश्चित्तपरिखेदो न ग्रहीतव्यः । लाभालाभयोर्हपविषादौ न ग्राह्यो । प्राणयात्रिकी प्राणधारणार्थ मात्रा परिमाणं "भैक्षस्य । अनेनैतद्दर्शयति । भैक्षासंभवे प्राणयात्रा मूलफलमूलेादकादिभिरप्यपरिगृहीतैः कर्तव्या । मात्रा पात्रदण्डादि तत्र सङ्गः प्रयत्नेनोपार्जनम् । ततो विनिर्गतो निवृत्तः । अकाम इति यावत् ॥ ५७ ॥
I
२०
Acharya Shri Kailassagarsuri Gyanmandir
अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः ॥
अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते ॥ ५८ ॥
अभ्यर्च्य यं ददाति सोऽभिपूजितलाभः । तं जुगुप्सेतेति निन्देत । अतश्च निन्दितं न समाचरेत् । सर्वशः सर्वकालं एकमप्यहस्तादृशं भैक्षं न गृह्णीयात् । १० उत्तरेऽर्थवादः । न हि मुक्तस्य बन्धेसंभवः ॥ ९८ ॥ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ॥
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ।। ५९ ।।
रहो निर्जनो देशस्तत्र स्थानासने कर्तव्ये | एकारामतायाः फलमिन्द्रियजयोऽनेन प्रदते । अथवा निष्कुतूहलताऽनेनोच्यते । यत्र बहवो जनसंघाताः स्त्रीपुं१५ सात्मका विचित्राभरणा दृश्यंते न तत्र क्षणमपि तिष्ठेत् ॥ ५९ ॥
इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ॥
अहिंसया च भूतानाममृतत्वाय कल्पते ।। ६० ।।
निरोधः स्वविषयप्रवृत्तिप्रतिबन्धः । अमृतत्वाय कल्पते अमृतत्वाय समर्थो योग्यो भवतीत्यर्थः । यथाँ आत्मज्ञानमेवमेतदपीति दर्शयति ॥ ६० ॥ अवेक्षत गतीर्नृणां कर्मदोषसमुद्भवाः ||
निरये चैव पतनं यातनाश्च यमक्षये ॥ ६१ ॥
परमार्थभावनाप्रसंख्यान मदमुच्यते दुःखात्मकसंसारस्वरूपनिरूपणम् । कथं नामायं प्रव्रज्याभैक्षचर्यादिशरीरक्लेशांस्तु सुत्दृत्स्वजन पुत्रदारधनविभवत्यागदुःखहेतुं परिणमय्य विरोधतः स्वच्छन्दतश्चाविगुणमनुष्ठास्यति । मनुष्याणां गर्तयो दुःखबहुलाः कर्मदोषेभ्यः २५ प्रतिषिद्धसेवनेभ्यो हिंसास्तेयपारदार्य पारुष्यपैशुनानिष्टसंकल्पादियैः समुद्भवन्ति । इहैव जीवलोके दारिद्रव्याधिपरिभवाद्वा वैकल्यादयो गर्तयः फलोपभोगादयैः । अमुत्र निरये नरके
१ फ - काले कुतश्चिन्न । २ फ-भैक्षं यस्य । ३ फ- अनन्यपरिगृहीतैः । ४ ड-लाभांश्च । ५ खबन्धन । ६ ड -अभ्यस्ताभ्यवहारेण । ७ खडक्ष-योगी भवति । ८ इदं वाक्यं फ-पुस्तके ६१ श्लोक टीकारम्भतो दर्शितम् । ९ फ-परीगणय्य। अबकडक्ष परिगणय्य । १० खण- विषश्यषद्यश्वा धगुणमनुहास्यति । ११ अकखडक्षक - गतिः । १२ फ-संकल्पादयः । १३ फ-विघल्पाद यो । १४ फ-दातव्या, अकखडसण- दांतयः । १५ फ-फलोपभोगाः ।
For Private And Personal Use Only