________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
४७१ मस्ति लिङ्गम् । तत एषां विवाहार्थनं " यद्यर्थिता तु दारैरिति "। यद्यप्युपनयनमादित्यदेशनमग्निप्रदक्षिणं परीत्येति च विहितं यतो नानुपनीतस्य विवाहसंभवो व्रात्यत्वात् । अतो यावच्छक्यं गुरुशुश्रूषणं विगुणमपि ब्रह्मचर्यमेवमस्ति । क्लीबस्य तु प्रकृतेरनुपनेयतैव । स च पतितश्च न क्वचिदधिकृतः । तस्मादनधिकृतविषयं पारिब्राज्यं नैष्ठिकता चेति न मनः परितोषमादधाति । सत्यं उदितहोमनिन्दावद्भविष्यति । ५ समुच्चयपक्षमाश्रित्य अनपाकृत्येति निन्दावचनं न पुनः प्रतिषेध एव । अथवा यदाऽकृतदारपरिग्रहस्य प्रव्रज्यायामधिकार इत्येवमेतन्नेयम् ॥ ३६ ॥
अनधीत्य द्विजो वेदाननुत्पाद्य तथा प्रजाम् ॥
अनिष्टा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ॥३७॥ यज्ञैराहिताग्निनित्यैः पशुसोमैः ॥ ३७ ॥
प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् ॥
आत्मन्यनीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥ ३८॥ प्राजापत्याऽध्वर्युवेदे विहिता । तस्यां च सर्वस्वदानम् विहितम् । तां कृत्वाऽऽत्मन्यग्नयः समारोप्यते ।समारोपणेऽपि विधिस्तत एवावगन्तव्यः । सार्ववेदसं दक्षिणा. ऽस्यास्तीत्यन्यपदार्थः । वेदो धनं तत्सर्व देयम् । इदमर्थे विहितः स्वार्थिको वा प्रज्ञादे- १५ राकृतिगणत्वात् । अन्ये तु पुरुषमेधं प्राजापत्यामिष्टिमाहुः । तत्र " ब्रह्मणे ब्राह्मणमालमत" इति प्रथमः पशुब्रह्मा च प्रजापतिः मुख्येन व्यपदेशप्रवृत्तेः प्राजापत्यः पुरुषमेधः सर्वस्वदानमग्निसमारोपणं प्रव्रज्या च तत्रैव विहिता। एवं हि तत्र श्रुतिः “अथात्मन्यग्नीन्त्समारोप्य तत्रारोपणेनादित्योपस्थानादपेक्षमाणैररण्यमभिप्रेयात्तदैव देवमनुष्येभ्यः स्थिरो भवतीति" । ये त्वात्मन्यग्नीत्समारोप्य प्रव्रज्यया व्यपदिष्टा अथाह एत २० एव आत्मनो यज्ञा इत्यतस्तन्मरणात्तस्यै दत्ता आत्मन्येव समारोपिता भवन्ति । अतो भार्यामरणपक्षे प्रव्रज्या नावश्या “ पनराक्रियेति" तत्र किंतु तस्याः पूर्वमरणे भार्याय दत्वाऽग्नीनन्त्यकर्मणीति पठितमिति वक्तव्यमिति पौरुषेयो ह्ययं ग्रन्थो न वेदो येनोक्तमुपालभेमहीति परिहारः स्यात् ॥ ३८ ॥
यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् ॥
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः॥३९॥ गार्हस्थ्यनिन्दयाँ चतुर्थाश्रमप्रशंसा । यज्ञेहि पशवो हन्यन्ते । “ प्ररोहधर्मकाश्चेतना" इति दर्शने तृणौषधीनां छेद इत्येतद्भूतभयम् । तद्गृहात्प्रव्रमितस्य समारोपिताऽग्ने -
१ ड-एषामस्ति । २ अ-प्रकतेऽनुप ३ फ-उदितहोमेन तावद्भविष्यति; ड-ण-क्ष-उदितहोमानि । ४ फ-सुतान् । ५ ख-ड-सर्ववेदसी। ६ फ-प्रज्या । ७ फ-योऽदत्त्वा । ८ ख-ण-निन्द' । ९ड-यज्ञेषु; ख-यज्ञैरिह । १० फ-इत्येतभयम् ।
२६
For Private And Personal Use Only