SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [पष्ठः तृतीयायुर्भागनिश्चयः संभवति । उक्तश्च कालः कायपाके प्रव्रज्या प्रतिपत्तव्या । यावता तपसा यावति च वयसि पुनर्मदवृद्धि शंक्यते तदा परित्रनेत् । विहृत्यासित्वा यथोक्तं विधिमनुष्ठायेति यावत् । संगत्यागश्च ममतापरिग्रहः एकारामता ॥ ३३ ॥ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्दियः॥ भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ ३४ ॥ समुच्चयपक्षमुपोद्वलयति । आश्रमादाश्रममिति । गृहस्थाश्रमाद्वानप्रस्थाश्रमं गत्वा हुतहोम उभयोरप्याश्रमयोर्यदा जितेन्द्रियस्तदा परित्रनेत् । प्रेत्य वर्धते मृत्वा विभूत्यतिशयं प्राप्नोति । भिक्षावलिदानेन परिश्रान्तः चिरम्। आश्रमधर्मानुवादोऽयम्॥३४॥ ऋणानि त्रीण्यपाकृत्य मनो माक्षे निवेशयेत् ॥ अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ ३५॥ अपाकरणम् ऋणसंशुद्धिः। मनो मोक्षे निवेशयेत् । मोक्षशब्देन प्रव्रज्याश्रमो लक्ष्यते । तत्र प्राधान्येन मोक्षकफलतोच्यते । न तथाऽन्येष्वाश्रमेषु । अतो मोक्षः परिव्रज्या ॥३५॥ कानि पुनस्तानि त्रीणि ऋणान्यत आह अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः ॥ इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ३६ ॥ "त्रिभिर्ऋणैर्ऋणवाँ जायते । यज्ञेन देवेभ्यः प्रजया पितृभ्यः स्वाध्यायेनर्षिभ्यः" इति श्रुत्यनुवादिनी स्मृतिरियम् । ननु च “ गृही भूत्वा प्रवनेदथवेतरथा, ब्रह्मचर्यादेव प्रव्रजेत् " इति जाबालश्रुतिः । उच्यते । उत्पत्तिमात्रमाश्रित्योक्तमुदाहरति । तत्रेदं विरुध्यते " अनुत्पाद्य २० तां प्रजामिति "। यद्येषा श्रुतिरस्ति किंतर्हि इदमुच्यते । प्रत्यक्षविधानाद्गार्हस्थ्य स्येति प्रव्रजेदिति । न तु प्रव्रजितेनेमानि कर्माणि कर्तव्यान्यनया वेतिकर्तव्यतयेत्येतनास्ति गृहस्थस्य त्वग्निहोत्रादीनि साङ्गकलापान्याम्नातानीत्येतदभिप्रायमेतत् । ये त्वेतां श्रुतिमदृष्ट्वा स्माता एव नैष्ठिकादयस्ते च गृहस्थाश्रमेण प्रत्यक्षश्रुतिविधानेन बाध्यन्ते । ये च क्लीबाद्यनधिकृतविषयतया स्मृतिवाक्यानामर्थवत्तां वर्णयन्ति तेषामभिप्रायं न विद्मः । २५ यदि तावदाज्यावेक्षणविष्णुक्रमाद्यङ्गाशक्तौ श्रौतेषु नाधिक्रियते यतस्तथाविधाङ्गयुक्तं कर्म संपादयितुं समर्थस्तं प्रत्यधिकारश्रुतीनामर्थवत्त्वे जाते न तदसमर्थमपि कुर्वीतेति । यद्येवं स्मार्तेष्वपि नैष्ठिकस्य गुर्वर्थमुदकुम्भाद्याहरणं भैक्षपरिचरणम् पारिवाज्येऽपि न द्वितीयामपि रात्रिं ग्रामे वसेदिति कुतः पंवन्धयोः स्मार्तकर्मक्रमाधिकारः । उपनयनं चैषा १ ड-यतेन्द्रियः । २ फ-शयेन । ३ फ-द्विराश्रम-। ४ फ-परिव्राज्यकेन । ५ फ-तानि ऋणानि । ६ ड-तु । ७ फ-वान् ; " ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः" इति तु श्रुती पाठः । ८ अक-ख-ड-क्ष-तथाऽऽत्मजानिति । ९फ-चेति-।१० फ-जो । ११ ख-ण-उपनयता; ड-उपनयनात् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy