SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । ४६९ तत्र लौकिके दृष्टार्थभेदे प्रवर्तमानस्य अद्वैतात्मविज्ञानभावनमविरुद्धम् । शास्त्रीये त्वग्निहोत्रादौ विरोधादिति को युक्तकार्येवं वदेत् । अथोच्यते । क्षुधाधुपहतस्याप्यद्वैतत्यागो विरोधिना भोजनेन तावत्काल एव । यथाऽन्धतमसि चलितस्य गच्छतः कण्टकप्रदेशे पादन्यासः सवितरि पुनरुदिते लब्धप्रकाशस्य पुनय्यिमेवाध्वन्यस्याकण्टकेऽवस्थानम् । तथा क्षुधाधुपघाते विच्छिन्नात्मविज्ञानस्य क्षणमालोकस्थानीयायां क्षन्निवत्तौ पनदृढसंस्कार- ५ वशादद्वैत एवावस्थानमिति । तत्तापसेऽप्यविरुद्धम् । गृहस्थस्यापि पुत्रदारादितयोपासनमविरुद्धम् । बहुव्यापारतस्तु भेदसात्म्यतां गतस्य कुतोऽद्वैतसंस्कारोत्पत्तिः । उक्तं च गृहस्थधर्मेषु “ एकाकी चिन्तयेदिति " ( अ. ४ श्लो. २५८) । तथा "पुत्रे सर्व समासज्येति " (अ. ४ श्लो. २५७ )। ____ननु च " तस्मादुह न पुरायुषः स्वः कामी प्रेयात्' इति श्रुतिस्तत्र कुतो १० वानप्रस्थस्य शरीरत्यागः । न हि सा श्रुतिर्वानप्रस्थादन्यत्रानया स्मृत्या विषय उपस्थापयितुं शक्यते । बलीयसी हि श्रुतिः सा च स्मृत्यनुरोधेन न संकोचमर्हति । उच्यते । जरसा विशीर्णस्यानिष्टसंदर्शनादिना वा विदिते प्रत्यासन्ने मृत्यौ मुमूर्षतो न श्रुतिविरोधः । एवं हि तत्र श्रूयते "न पुनरायुष"इति । अवस्थाविशेषे ह्यनभिप्रेते मरणे एतावदेवावक्ष्यन् ." न स्वः कामी प्रेयादिति " अरिष्टोपदेशश्वोपनिषत्स्वेवमर्थवान्भवति । यस्य त्वेतन्निमित्तं १५ मरणं नास्ति ॥ ३२॥ वनेषु च विहृत्यैवं तृतीयं भागमायुषः॥ चतुर्थमायुषो भागं त्यक्त्वा सङ्गान्परिव्रजेत् ॥ ३३ ॥ इतःप्रभृति चतुर्थाश्रममतिः । तृतीयं भागमिति । कञ्चित्कालं स्थित्वेत्यर्थः । यावता कालेन तपः सुतप्तं भवति विषयाभिलाषश्च सर्वो निवृत्तः । न हि मुख्यतृतीय २० आयुषो भाग एवानेन शक्यो ज्ञातुम् । न हि वर्षशतापेक्षाऽऽश्रमाणां यतो वलीपलितापत्योत्पत्तीस्तृतीयाश्रमप्रतिपत्तौ काल उक्तः । न च सर्वस्य पञ्चाशद्वर्षदेशीयस्य तदुत्पद्यते । उक्तं चान्यत्र " तपसि ऋद्धे परित्रनेदिति"। ___ ननु च यथाऽन्येषामाश्रमाणां कालो विवृतो ग्रहणान्तं ब्रह्मचर्य वलीपलिताद्यवधि गार्हस्थ्यम् । नैवमिह कश्चित्परिच्छेदहेतुरस्ति । यदि यथाश्रुतं तृतीयो भागः २५ समाश्रियेत । यच्च तपसि ऋद्ध इति । तत्रापि कालापेक्षा युक्तैव । न ज्ञायते कियता तपसा ऋद्धिर्भवति । अतः कालपरिच्छेदो न वचनाहः । उक्तमत्र न शतवर्षापेक्षया १ ड-वर्तमानस्य । २ क-र-ड-द्वैतत्यागो। ३ फ-वशादेवावस्थान । र-वशातद्वैत एवावस्थानमिति । ५ र-पुत्रदारादिस्तथोपासनविरुद्धं । क्ष-तथोपादान । ६ फ-बहुव्यापारः । ततस्तु । ७ अ-कड-क्ष-आश्रममिति । ८ अ. ६ श्लो. २ । ९ ड-तपःसिद्धेः परिव्रजेत् । १० फ-परिच्छेदे । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy