SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६८ मेधातिथिभाष्यसमलंकृता। [षष्ठःः आस। महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् ॥ वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ३२॥ पूर्वोक्तानि तपांसि महाप्रस्थानं चानन्तरोक्तं महर्षिचर्या । आसामन्यतमया नदीप्रवेशेन भृगुप्रपतनेनाग्निप्रवेशेनाहारनिवृत्त्या वा शरीरं त्यजेत् । अस्य फलं वीतशोकभयस्य ब्रह्मलोकप्राप्तिः । नरकादिदुःखानुभवः शोकः । भयं नरकं गमिष्यामीति तदस्य व्येति । अव्यवधानेनैव नाचिरादिक्रमेण ब्रह्मलोकं प्राप्नोति । इह स्थानविशेषो ब्रह्मलोकः स्वर्गादपि निरतिशयस्तत्र महीयते पूज्यमान आस्ते । न तु ब्रह्मणः स्वाराज्यं प्राप्नोति लोकग्रहणात् । चतुर्थे ह्याश्रमे मोक्षं वक्ष्यति । न केवलकर्मकृतो मोक्ष इत्याहुः । ननु चास्याप्युक्तं " विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीरिति"। आत्मसंसिद्धिश्च १० आत्मोपासनतया तद्भावापत्तिः । न ह्यन्यः संसिद्धिशब्दस्यार्थ उपपद्यते । औप निषदीषु श्रुतिषु तद्भाव्यं योगिनामात्मानं " ब्रह्मसंस्थोऽमृतत्वमेतीति " च । अथ सायुज्यं गच्छतीत्यादि । अथोच्यते । अन्या अपि तपःसिद्धयः श्रूयन्ते । “ से यदि पितृलोकवासो भवति" इत्यादि संकल्पितार्थोपपादिता सार्टिता सालोक्यं च पुरुषस्य भविष्यति । न पुनमोक्ष इति । तदयुक्तं विशेषाभावात् । यथैव परिमितफलासूपासनास्वधिक्रियते एवममृतत्वप्राप्तावपि । न क्वचिच्छूयते परिव्राजकेनैवोपासनान्यद्वैतविषयाणि कर्तव्यानि । ___ ननु च "त्रयो धर्मस्कन्धाः" इत्युपक्रम्य " यज्ञोऽध्ययनं दानम्" इत्यनेन गृहस्थधर्मा उक्ताः । तप एवेत्यनेन वानप्रस्थः । ब्रह्मचार्याचार्यकुलवासीत्यनेन नैष्ठिकः । ब्रह्म. संस्थ इत्यनेन परिव्राजकः । एतेषां त्रयाणां पुण्यलोका उक्ताः । पारिशेष्यादेतद्वयतिरिक्तस्था मृतत्वम् । नैवम् । ब्राणि संतिष्ठते प्रयतते तत्परस्य ब्रह्मसंस्थस्य यौगिकत्वादस्य २० शब्दस्य । ननु च यदि सर्वेषामधिकारस्तदैतावदेव वक्तव्यं ब्रह्मसंस्थोऽमृतत्वमेतीति । नैवम् । आश्रमाणां स्वविधिवाक्यावगतं फलं संपत्क्षयिणः पुण्यलोका भवन्त्रीति ब्रह्मसंस्थस्य तदाश्रमावस्थितस्यैवामृतत्वमपुनरावृत्तिलक्षणं विधीयते । ननु चाद्वैतरूपं ब्रह्मेत्यात्मविदः । स च निवृत्तकर्माख्यः । आश्रमाश्च प्रवृत्तमार्गाख्याः क्रियाकारकफलभेदानुष्ठानात्मकाः । तत्राद्वैतात्मविज्ञाने समानभेदाश्रयाणि च गृहस्थाद्यग्निहोत्रकादनिीति परस्परविरोधः । २५ अत्रोच्यते । समानमेतत् पारिवाज्येऽपि यमनियमानामिष्टत्वात्ते च भेदाश्रयाः । अथाप्युच्येत कर्मसंन्यासिनो निवृत्तिमार्गावस्थायिनो नैव केचिच्छास्त्रार्थविधयः सन्ति । नायं शास्त्रार्थः । अहंकारममकारत्याग एव संन्यासो वक्ष्यते । नाशेष शास्त्रार्थत्यागः । तस्यापि क्षुधाधुपहतस्य भिक्षादौ प्रवर्तमानस्यास्त्येव क्रियाकारकसंबन्धः। फ-+ च। २ फ-अचिरादिक्रमेण ३ फ-चाप्युक्तं । ४ फ-आत्मोपासनया । ५ फ-यस्तपति। ६ ड-स- पादः। र-पादि। ७ ड-र-उपासनाद्वैतविषयाणि । ड-फ-उपासनाय । ८ ड-अननैव । 3 ड-पुनरावृत्तिलक्षणं । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy