________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय: ]
मनुस्मृतिः ।
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् || गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ २७ ॥ पञ्चम्यर्थे सप्तमी । तापसेभ्यः फलमूलासंभवे भैक्षमाहरेत् । गृहमेधिभ्यो -गृहस्थेभ्यो वा वनवासिभ्यः । यात्रिकं यावैता सौहित्यं भवति ॥ २७ ॥
असंभवे
Acharya Shri Kailassagarsuri Gyanmandir
ग्रामादाहृत्य वाऽश्रीयादष्टौ ग्रासान्वने वसन् ॥ प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ २८ ॥
ग्रासग्रहणान्न मूलफलभिक्षैव ग्राम्यान्नाशनमन्यासंभवेऽनेनानुज्ञातम् । गृहीत्वा टेनैव पाणिना भाजनरहितेन शकलेन शरावाद्येकदेशखण्डेन ॥ २८ ॥
एताश्चान्याच सेवेत दीक्षा विप्रो वने वसन् ॥ विविधाचौपनिषदीरात्मसंसिद्धये श्रुतीः ॥ २९ ॥
एता दीक्षा नियमानन्यांश्चान्तर्जलस्थान चक्षुर्निमीलनादिकं सेवेत । श्रुतीरौपनिपदी: रहस्याधिकारपठितानि वेदवाक्यानि अधीयीत चिन्तयेद्भावयेच्चाऽऽत्मसंसिद्धये ब्रह्मप्राप्यथ वा उपासना उक्ताः । विविधा इत्यनुवादः ॥ २९ ॥
ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः ॥
विद्यातपोविध्यर्थं शरीरस्य च शुद्धये ॥ ३० ॥
४६७
१०
For Private And Personal Use Only
१५
1
अविशेषेणोक्ता अन्याश्च सेवेत । शाक्यपाशुपतादिदीक्षादिसेवनमपि प्राप्तं तन्निषेधति । ऋषिभिर्महाभारते संतप्य वनेष्वद्यैः सेविता वर्ण्यन्ते । ब्राह्मणैश्च गृहस्थैर्याः सेविताः। तदुक्तम् “उत्तरेषां चैतदविरोधीति" (गौतमीये अ. ३ सू. ९ ) । विद्या आत्मैकत्वविज्ञानं तच्छ्रुतिसेवनेन वृद्धिं नयेत् दृढीकुर्यात् । शरीरस्य च शुद्धये आहारनियम- २० -दीक्षाः सेवेत ॥ ३० ॥
अपराजितां वाssस्थाय व्रजेद्दिशमजिह्मगः ॥
आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः ॥ ३१ ॥
प्राच्या उदीच्याश्च दिशोरन्तरालमपराजिता दिक् लोकेष्वैशानीत्युच्यते । दिशमास्थाय चेतसि निधायैषा मया गन्तव्येति ततस्तामेव व्रजेत् । अजिह्मगः अकुटिल- २९ गामी । श्वभ्रनदीस्रोतांसि न परिहरेत् । आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः । प्राच्या उदीच्याश्च गमनविधिरयम् । यावन्न पतति तावद्वायुभक्षोऽम्बुभक्षश्च स्यात् । युक्तः योगशास्त्रैरात्मानं युक्त्वा । तदेतन्महाप्रस्थानमुच्यते ॥ ३१ ॥
१ फ-मूलफलासंभवे । २ ड - वनवासिकेभ्यः । ३ फ - प्राणमात्र सौहित्यं, र-पाकमात्र- ४ फ-पत्रपुटेनैव । ५ अ-क-फ-र-क्ष- ब्रह्मप्राप्यर्था या - ६ र - वनाद्यायैः ।