SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ॥ षण्मासनिचयो वा स्यात्समानिचय एव वा ॥ १८ ॥ यत्पूर्वमशनमुक्तं तदैकाहिकभोजनपर्याप्तमेवार्जयेत् । मासोपयोगी वा संचयो मासपर्याप्तः संचयो माससंचयः । सोऽस्यास्तीति ठन् कर्तव्यः। यदि वा माससंचयक इति । बहुव्रीहिसमासोऽत्र कर्तव्यः । मासपर्याप्तः संचयोऽस्येति । एवमुत्तरयोरपि ॥ १८॥ ५ नक्तं चान्नं समश्नीयादिवा वाऽऽत्दृत्य शक्तितः ॥ चतुर्थकालिको वा स्यात्स्याद्वाऽप्यष्टमकालिकः ॥ १९ ॥ द्विभॊजनस्य पुरुषार्थतया विहितत्वादन्यतरस्मिन्काले निर्वृत्तिर्विधीयते । यथा यथा वयोऽतिक्रामति तथा तथा भोजनकालं जह्यात् । चतुर्थमय॑ष्टमावधिकतयाऽऽश्रयेत् । त्रीण्यहोरात्राण्यतीत्य चतुर्थेऽहनि सायं भुञ्जानोऽष्टमकालिको भवति । भोजनस्य प्रकृत- १. त्वात्तद्विषयश्चतुर्थकालसंबन्धः प्रतीयते ॥ १९ ॥ * चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् ॥ . पक्षान्तयोऽप्यनीयाद्यवागू कथितां सकृत् ॥ २० ॥ पक्षान्तौ पूर्णमास्यमावास्ये । अत्र श्रितां यवागूमश्नीयात् । सकृदिति सायं प्रातर्वा ॥ २० ॥ पुष्पमूलफलैर्वाऽपि केवलैर्वतयेत्सदा ॥ कालपक्कैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ २१ ॥ कालपक्कैः पनसादीनाम् अग्निनाऽपि पाकः क्रियते तन्निषेधार्थम् । तदग्निपर्क गृहस्थस्यानिषिद्धम् । वैखानसं नाम शास्त्रं यत्र वानप्रस्थस्य धर्मा विहितास्तेषां मते स्थितः । अन्यामपि तच्छास्त्रोक्तां चर्या शिक्षेत ॥ २१॥ . भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् ॥ स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः॥ २२ ॥ विपरिवर्तनं केवलायां भूमावेकेन पार्थेन निषेद्य पुनः पार्थान्तरेणावस्थानम् । आहारविहारकालौ वयित्वा एवं वर्तेत । नोपविशेन्न चक्रमेत् न शय्यायां नासने न भित्तौ निषीदेदित्यर्थः । प्रपदैः पादात्रैर्वा तिष्ठेत् । स्थानासनाभ्यां चै दिने । रात्रौ तु २५ केवलस्थण्डिलशायितां वक्ष्यति । सवनेषु प्रातमध्यन्दिनापराह्नेषु उपयनप इति च । असंभवे नद्यादीनामुद्धृतोदकेनापि स्नानं दर्शयति ॥ २२ ॥ १ ख-फ-र-याति । २ र-अथाष्टभावधितया; फ-चतुर्थमष्टभावधितया । * [यतः पत्रं समादद्यान्न ततः पुष्पमाहरेत् ॥ यतः पुष्पं समाद्यान्न ततः फलमाहरेत् ॥१॥] ३ अ-क-ख-ड-क्ष-र-निषिद्य । ४ अ-क-ख-ड-क्ष-र-वा । - For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy