SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४६४ मेधातिथिभाष्यसमलंकृता । [ षष्ठः तानि च कवकानि भूमौ जायन्ते वृक्षकोटरादावपि । अतो विशेषणार्थं भौमग्रहणम् । समाचारविरोधो गृहस्थधर्मेषु चाविशेषेण कवकानां प्रतिषेधः । वानप्रस्थस्य च नियमातिशयो युक्तः । तस्माद्भौमानीति स्वतन्त्त्रपदं तत्र गोजिव्हिका नाम कश्चित्पदार्थो वनेचराणां प्रसिद्धस्तद्विषयं बोद्धव्यम् । न तु यत्किचिद्भुविजातमात्रस्य । कवकानां ५ प्रतिषिद्धत्वात्पुनः प्रतिषेधो भूस्तृणादीनां तत्समप्रायश्चित्तार्थः । भूस्तृणशिग्रुकशब्दौ शाकविशेषवचनौ वाहीकेषु प्रसिद्धौ ॥ १४ ॥ १० १५ २० www. kobatirth.org 66 Acharya Shri Kailassagarsuri Gyanmandir त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् ॥ जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ १५ ॥ षण्मासनिचयसमनिचयपक्षयोराश्वयुजे त्यागः । ननु मुन्यन्नं तावदेव संचेयं यत्कर्म पर्याप्तं तत्र नैवाधिकमस्ति । कस्य त्यागः । उच्यते। न शक्या तुला ग्रहीतुमर्जनकाले अतो यत्किंचिदवशिष्टमस्ति तस्याश्वयुजे त्यागः । जीर्णानि चैव वासांसि । अजीर्णानां नास्ति त्यागः ॥ १५ ॥ न फालकृष्टमश्रीयादुत्सृष्टमपि केनचित् ॥ न ग्रामजातान्यार्तोऽपि पुष्पाणि च फलानि च ॥ १६ ॥ आरण्यस्यापि फालकृष्टस्य प्रतिषेधः । ग्रामजातान्यफालकृष्टान्यपि संत्यज्य ग्राम्यमाहाराम्" इत्यनेन प्रतिषेधः । पुष्पफलानां क्रियते नोपयोगः । ग्राम्याणां देवताभ्यर्चनादौ पुष्पफलानां निषेधः । आर्तोऽपि अन्यासंभवेऽप्यवश्यकर्तव्यत्वाद्देवताद्यर्चनस्य प्रतिनिधिपक्षेऽपि नोपादेयमित्यर्थः । अपिशब्दो भिन्नक्रमो द्रष्टव्यः । पुष्पाण्यपि नोपादेयानि किं पुनर्धान्यानि ॥ १६ ॥ अग्निपकाशनो वा स्यात्कालपक्क भुगेव वा ।। अश्मकुट्टो भवेद्वाऽपि दन्तोलूखलिकोऽपि वा ॥ १७ ॥ अग्निना पक्कं शाकौदनादि तदशनं यस्य सोऽग्निपकाशनः । काले स्वयमवे यत्पक्कं तदेव भुञ्जीत वार्क्ष फलम् । अथवा धान्यानामेव नीवारादीनां निष्पिष्येदं भक्षणम् । अश्मभिः पाषाणैः कुट्टयित्वा पिष्टरूपं कृत्वा भुञ्जीत । यद्वा हतूपपन्नं वृन्तकादिभि२५ र्बहिः कपाटकं तदश्मभिरंपनीय कवाटमन्तः फलं भक्षयेत् । दन्ता उलूखलम् अस्य दन्तोलूखलिकः । दन्तैस्तुषकवाटमपनीय भक्षयेत् । असत्यपि संस्कारे स ेन कर्तव्यः | यदि वा पूर्ववदशनविशेषोपलक्षणं तादृशम श्रीयाद्यदस्य दन्ता एव उलूखल कार्यमवघातं संपादयन्ति ॥ १७ ॥ १ अ-क-ख-ड-क्ष-समाचारविरोधो । २ अ-क-ख-ड-क्ष- नियमाविध्यायुक्तम् । ३ अ-डवाहीनेषु । ४ र - समानि च पक्षयो । ५ फ-मूलानि । ६ फ-नाई । ७ ड - निष्कुय्य । ८फ - बहिस्तुषकपाटक ९ अ-क-ख - क्ष -- उपनीय । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy