SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः। पत्तिः । मृतभार्यस्य तदाधानं वाचनिकं भविष्यति । यदा वा ब्रह्मचर्यादेव वनवासमिच्छतदा श्रावणिकाधानम् । तस्मादाहिताग्नेः महाग्निमिवनप्रस्थानं सभार्यस्य । तत्र च यथाविधि व्रीह्यादिना श्रौतकर्मानुष्ठानम् । ब्रीह्यादीनामपि मुन्यन्नता कथंचिदुपपाद्या । ब्रीहियवावपि पवित्रम् । भार्यानिक्षेपश्चानाहिताग्नेः कथंचित्स्मार्तेऽग्नौ गतिः । उमयोः स्मार्तत्वात् । यस्य च द्वे भार्ये जाते एकया चाग्नयो नीतास्तस्य द्वितीयां भायौ निक्षिप्येति वचनम् । अस्कन्दयन्। स्कन्दनं विध्यतिक्रमः । यथाविहितमनुष्ठानस्यासंपादनम् । एतच्च पादपूरणं योर्गत इत्येतदपि। योगत अस्कन्दयन् युक्त्याऽविनाशयन् । युक्तिविधिरेव ॥ ९ ॥ दर्शष्टयाग्रयणं चैव चातुर्मास्यानि चाहरेत् ।। तुरायणं च क्रमशो दाक्षस्यायनमेव च ॥ १० ॥ दर्शष्टिश्च आग्रयणं चेति समाहारद्वन्द्वः। चातुर्मास्यतुरायणदाक्षायणाः श्रौतकर्मविशेषवचना नित्या एव तुरायणादयः केषांचित् ॥ १० ॥ वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः॥ पुरोडाशांश्चरूंश्चैव विधिवनिर्वत्पृथक् ॥ ११ ॥ यदा मुन्यन्नैरिति न पूर्वेण संबंध्यते तदा नास्ति चोद्यं वैतानिकानि कथं १५ ब्रीह्मादिचोदितानि क्रियेरन् । अत्र चरुपुरोडाशा वैखानसशास्त्रोक्ता एव वेदितव्याः । वसन्ते जायन्ते पच्यन्ते वा वासन्तानि । एवं शारदैमेध्यैरित्यनुवादः । स्वयमाहृतः प्रतिग्रहादीनि वृत्तिकर्माणि निषिध्यन्ते । स्मार्तानामुक्तानां कर्मणामनुष्ठानार्थ पुनर्हत्यादिनापहरणम् । विधिवत्पृथगितिपूरणे ॥ ११ ॥ देवताभ्यस्तु तध्दुत्वा वन्यं मेध्यतरं हविः ॥ शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥१२॥ पर्वस यद्देवताभ्यो दत्तं तच्छिष्टमेव भक्षयेन्न शाकमूलफलादि । शेषमात्मनि युञ्जीत आत्मनिमित्तमुपयोजयेत् । आत्मार्थ शरीरस्थित्यर्थमित्यर्थः । स्वयंकृतं च लवणं सैन्धवादि निषेवेत ॥ १२ ॥ ___ स्थल जौदकशाकानि पुष्पमूलफलानि च ॥ मेध्यवृक्षोद्भवान्यद्यात्स्रहांश्च फलसंभवान् ॥ १३ ॥ स्थलजानि उदकजानि अद्यात् । तथा पुष्पमूलफलानि च ॥ १३ ॥ वर्जयेन्मधु मांसं च भौमानि कवकानि च ॥ भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥ १४ ॥ भौमानि कवकानि । कवकशब्दः प्राग्व्याख्यातः छत्राकशब्दपर्यायः । ३० १फ-विहितस्यानुष्ठान-२ फ-योग । फ-ऋक्षेष्टया-। ४ फ-आग्रहमं । ५ अ-ड-संबाध्यते। ६ अ-ड-च। ७ फ-छत्राकपर्यायः २५ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy