SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। यद्भक्षः स्यात् । यदेव भक्षयेत्तदेव पिष्टादि यथासामर्थ्य दद्यात् । बलि अनग्निहोत्रं इन्द्रायेन्द्रपुरुषेत्यादि यद्विहितम् । अग्नौ त्वस्मिन्पक्षे होमो नास्ति । तद्युक्तम् । बलिशब्दस्य ज्यामात्रवचन दग्नावनग्नौ च तुल्यमेतत् । अथाप्ययं पक्षः स्याद्यदेव भक्षयेत्तदेव । अग्नावेव पक्केनाग्नौ होमः कर्तव्यस्तथापि तावन्मात्रप्रयोजनं शाकादि वक्ष्यति स्वयं कालपक्वं भोक्ष्यते । सर्वथा कालपक्वाशिनोऽप्यस्ति वैश्वदेवोऽग्नावेव। ५. अबादिभिर्द्वन्द्वोऽयम् । अद्भिर्मुलफलैः भिक्षया च नीवारादिनाऽर्चयेदाश्रमागतं पान्थम् ॥७॥ स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः॥ दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥ ८॥ आश्रमबुद्ध्या स्वाध्यायादीनां निवृत्तिमाशङ्कमान आश्रमान्तरत्वादस्यानिवृत्त्यर्थमाह । नित्ययुक्तः न यथा गार्हस्थ्ये । तत्र हि गृहचेष्टार्था अपि व्यापाराः सन्ति तेष्व- १० नुष्ठीयमानेषु नास्ति स्वाध्यायः । दान्तो दमयुक्तः मदवर्जितः । मैत्रः मित्रकर्मप्रधानः प्रियहितभाषी । सन्निहितस्य चित्तानुकूलनपरः स समाहितः । नासंबद्धं नापाकरणिकं बहु पराधीनोऽपि ब्रूयात् । दाता अपां मूलभिक्षाणां च । अनादाता पथ्यौषधांद्यर्थमाश्रमान्तरादागतं न याचेत् । सर्वभूतानुकम्पकः अनुकम्पा कारुण्यम् । सत्यपि कारुणिकत्वे न परार्थमन्यं याचेत ॥ ८ ॥ वैतानिकं च जुहुयादग्निहोत्रं यथाविधि ।। दर्शमस्कन्दयन्पर्व पौर्णमासं च योगतः ॥ ९॥ वितानो विहारस्तत्रं भवं वैतानिकम् । त्रेताग्निविषयं कर्म श्रौतं तज्जुहुयात्कुर्यात्। अग्निहोत्रशब्दो यवाग्बादी होमसाधने द्रव्ये वर्तते न कर्मनामधेयम् । ततश्च तज्जुहुयादाहवनीयेऽग्निहोत्रादिभिर्नुहोतीत्यर्थः । उपपन्नः प्रथमपक्षेऽग्निहोत्रंशब्दो जुहोति- २० नाऽभिन्नार्थः । नन च " पत्रेषु भार्या निक्षिप्येति" पक्षान्तरमुक्तं तत्र कथं तया विना श्रौतेष्वधिकारः । प्रोषितस्य यथेति चेत् । यथा प्रोषितो वा यजमानः संविधानादिना दूरस्थोऽप्यधिक्रियते संविधाने एवं भवति कर्ता तद्वत्पत्न्यपि वनं प्रतिष्ठमानमनुज्ञास्यति न सहाधिकारो विरोत्स्यत इति तदपि वार्तम् । दैवान्मानुषाद्वा प्रतिबलात्कथञ्चित्प्रवासोपपत्तेः। २५ युक्तमीदृशमनुष्ठानं न स्वेच्छया । सत्यां शक्तौ बहूनि चाङ्गानि परिलुप्येरन् । दर्शपौर्णमासयोः " वेदोऽसि वित्तिरसि" इत्यादि पत्नी वाचयेदित्युक्तं तद्धीयेत । अथोच्येत १अ-क-ख-ड-क्ष-अग्निहोत्रं । २ अ-क-ख-ड-क्ष-वेदेज्यामात्र- । ३ अ-क-ख-ड-क्ष -गृहचेष्टाया। 7 अ-क-ख-ड-क्ष-दम्भवर्जितः। ५ अ-क-ख-ड-क्ष-प्रियहिता भाषा । ६ फचित्तानुकूलतापरः । ७ अ-क-ख-ड-क्ष-अप्राकरणिकं.। ८ अ-क-ड-क्ष-बह्वपराधतोऽपि । ६ फआपद्यौषधाद्यर्थमाश्र-। १० क-ख-ड-क्ष-आश्रमाचारादागतं । ११ अ-ड याचते। १२ अ-कख-ड-क्ष-तत्रभवो वैतानिकः । १३ फ-साधनद्रव्ये । १४ अ-क-ख-ड-क्ष-अग्निहोत्रशब्देन । १५ अ-क-ख-ड-क्ष-पदान्तरमुत्तम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy