SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्री ॥ श्रीगणेशाय नमः अथ षष्ठोऽध्यायः प्रारभ्यते । सादरू * एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ॥ वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥ १ ॥ गृहोपलक्षित आश्रमो गृहाश्रमः । गृहा दाराः तत्र स्थित्वा तमनुष्ठाय वने वसेदिति विधिः । स्थित्वेति क्त्वाप्रत्ययेन पौर्वकाल्यं गार्हस्थ्यस्य वनवासाद्दर्शयति । क्रमेणाश्रमः I कर्तव्यः । कृतगार्हस्थ्यो वनवासेऽधिक्रियते । समुच्चयपचमाश्रित्यैतदुक्तम् । अन्यथाऽवि - प्लुतब्रह्मचर्यादपि वनवासो विद्यत इत्येतदपि वक्ष्यते । विजितेन्द्रियः पक्ककषायः क्षीणराग इत्यर्थः । एवं विधिवद्यथावदितिपदानि वृत्तपूरणानि तानि प्राक्तत्र तत्र १० व्याख्यातानि । एतावद्विधीयते । गार्हस्थ्यं कृत्वा वनवास आश्रयितव्यः ॥ १ ॥ गृहस्थस्तु यदा पश्येद्वीप लितमात्मनः || अपत्यस्यैव चापत्यं तदाऽऽरण्यं समाश्रयेत् ॥ २ ॥ यदुक्तं त्यक्तविषयोपभोगगर्भोऽधिक्रियत इति तदेव दर्शयति । वली त्वक्शैथिल्यम् । पलितं केशपाण्डुर्यम् । अपत्यस्यापत्यं पुत्रस्य पुत्र इत्याहुः । सत्यपि दुहितुर्रपत्ये दौहित्रे ११. कन्यायां पुत्रस्यापि जातायां नैवं विधिमिच्छन्ति शिाः । अन्ये तु शिरःपालित्यं पौत्रोत्पत्तिं च वयोविशेषलक्षणार्थमाहुः । यस्य कथंचित्पालित्यं न भवेत्सोऽपि वार्धक्ये वनं समाश्रयेत् । यथैव ' जातपुत्रः कृष्णकेशस्तु' आधानेऽधिक्रियते एवं जातपौत्रः पलितशिराः । तदापि पुत्रजन्म कृष्णकेशता च वयोविशेषोपलक्षणार्थमेव । नातिशीघ्रं नातिचिरमित्यर्थस्योपलक्षणत्त्रे तु प्रमाणं वक्तव्यम् ॥ २ ॥ संत्यज्य ग्राम्यमाहारं सर्व चैव परिच्छदम् || पुत्रेषु भार्या निक्षिप्य वनं गच्छेत्सहैव वा ॥ ३ ॥ * [ अतःपरं प्रयक्ष्यामि धर्मे वैखानसाश्रमम् । वन्यमूलफलानां च विधिं ग्रहणमोक्षणे ॥ १ ॥ ऽऽ ] १ फ- पूरणार्थानि २ अ-क-ख-ड-क्ष- अपत्यत्वं । ३ अ-क-ख-ड-क्ष-लक्षणार्थतैव । For Private And Personal Use Only २०
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy