SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता। [पंचमः प्रोषितभर्तृकायाश्च स विधिः । कामशब्दप्रगोयोऽरुचिसंसूचनार्थम् । देहक्षपणमप्यकार्यमिदं त्वन्यदकार्यतरं यदन्येन पुरुषेण संप्रयोगः ॥ १५६ ॥ आसीतामरणाक्षान्ता नियता ब्रह्मचारिणी ॥ यो धर्म एकपत्नीनां कांक्षन्ती तमनुत्तमम् ॥ १५७ ॥ ५ एष एवार्थो विस्पष्टीक्रियते । आ मरणाब्रह्मचारिण्यासीत अस्यामापदि न व्यभिचारेणात्मानं जीवयेत् । क्षान्ता तत्कृतं दुःखमवधीरयन्ती न ब्रह्मचर्य क्षुदुपम॒ष्टं येन चित्तं कल्लोलेन खण्डयेत् । एकः पतिर्यासां ता एकस्य वा पत्न्य एकपत्न्यस्तासां सावित्रीप्रभृतीनां यो धर्मो यस्य फलं वरदानाभिशापादिषु शक्तता तं कांक्षन्ती कामयमाना ब्रह्मचर्य न जह्यात् । अस्यामवस्थायां मूलफलाशिन्या यदि भवति मरणं १० ततो न दोषः ॥ १५७ ॥ अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ॥ दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ १५८ ॥ पूर्वेणापदि जीविकार्थः परपुरुषसंप्स! निषिद्धोऽनेन पुत्रार्थी प्रवृत्तिर्निविध्यते । एवं किल श्रूयते "नापुत्रस्य लोकोऽस्ति" इति । लिङ्गं च तत्राविवक्षितमतः पुत्रार्थे प्रसङ्ग १५ इदमुच्यते । बहूनि सहस्राणि कुमारा एव ब्रह्मचारिणोऽकृतदारा नैष्ठिकास्तेषामनेकानि सहस्राणि दिवंगतानि स्वर्ग प्रामुवन्ति । नियोगस्तु नवमे ( श्लो. ५९ इ.)। चतुर्विद्यया विहितो नात्मतन्त्रतया पुत्रार्थिन्याः । अकृत्वा कुलसंततिं कुलवृध्द्यर्था संततिस्तामकृत्वा पुत्रानजनयित्वेत्यर्थः । अनेकानीति नञ्समासस्योत्तरपदार्थप्राधान्येन बहुवचनं चिन्त्यम् । सत्यप्येकत्वप्रतिषेधे ब्यादिसंख्यावचनं दुर्लभम् । तथा ह्ययं स्वधर्मावेशेन २० परित्यक्तस्वातिकत्वेनाच्छादिततद्रूपोऽप्यतिदीर्घसंख्याविशेषानाचष्टे यथा मोदो ग्राम इति । उक्तं च चूर्णिकाकारेण " अनेकस्मादितिसिध्यतीति " । एकवचनप्रयोगशिष्टिसिद्धिं दर्शितवान् असहायवचनो वाऽयमनेकशब्दः । असहायानि गतानि भार्या सहायभूता एषां नासीदित्यर्थः ॥ १५८ ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ॥ स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ।। १५९ ॥ एष एवार्थो भूय उच्यते प्रतिपत्तिदाढार्थम् ॥ १५९ ॥ अपत्यलोभाद्या तु स्त्री भरिमतिवर्तते ॥ सेह निन्दामवामोति परलोकाच हीयते ॥ १६० ॥ फ-उपसृष्टं । २ अ-क-ख-ड-क्ष-चतुर्विच्छया। ३ फ-गोदी ड-मोदी ग्रामइति; क-मालों माम इति । ४ फ-पतिलोकात् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy