________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
हेोमयेोरङ्गत्वात्तदभावाच्च स्त्रियाः । न च वक्तुं युक्तं जपहोमविकलं कृच्छ्रानुष्ठानमस्या भविष्यति न हि स्वेच्छयाऽङ्गत्यागो युक्तः सर्वाङ्गकल्पयुक्तस्य कर्मणोऽम्युदयसाधनत्वेनावगतत्वात् । न हि पुरुषशक्तिभेदापेक्षयाऽङ्गानामुपचयापचयौ भवतः । सन्ति च सर्वाक्रोपसंहारेण सवर्णास्त्रैवर्णिकाः प्रयोगमनुष्ठातुम् । अतो न स्त्रीशूद्रस्याभ्युदय कामस्य कृछ्रेष्वधिकारः । प्रायश्चित्तेषु विशेषं वक्ष्यामः । उपोषितं उपवासः आहारविच्छेद एकत्र - ५ द्विरात्रादिषु । शुश्रूषते परिचरति ॥ ११४ ॥
पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ॥ पतिलोकमभीप्सन्ती नाचरेत्किंचिदप्रियम् ॥ १५५ ॥
पत्युर्लोकः पत्या सह धर्मानुष्ठानेन योऽर्जितः स्वर्गादिः स पतिलोकस्तमभीप्सन्ती प्राप्तुकामा नाचरेत्किचिदप्रियं परपुरुषसंसर्गादिशास्त्रप्रतिषिद्धम् । न हि मृतस्य किं १० प्रियमप्रियं चाशक्यमवसातुम् । न च जीवतो यत्प्रियं तदेव मृतस्य । भवान्तरोपपन्नानां तु प्रीतिभेदात् । तस्माद्यत्प्रतिषिद्धं स्वातन्त्र्यं तदेवाप्रियं तन्नाचरेत् ॥ १५५ ॥ कामं तु क्षपयेद्देहं पुष्पपमूलफलैः शुभैः ॥
न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ।। १५६ ॥
तदेव सविशेषं दर्शयति । पुंवत्स्त्रीणामपि प्रतिषिद्ध आत्मत्यागो यदस्याङ्गिरसे १५ " पतिमनुम्रियेरन् ” इत्युक्तं तदपि नित्यवदवश्यं कर्तव्यम् । फलस्तुतिस्तत्रास्ति फलकामायाश्चाधिकारे श्येनतुल्यता । तथैव " श्येनेन हिंस्याद्भूतानि” इत्यधिकारस्यातिप्रवृद्धतरद्वेषान्धतया सत्यामपि प्रवृत्तौ न धर्मत्वमेवमिहाप्यतिप्रवृद्धफलाभिलाषायाः सत्यपि प्रतिषेधे तदतिक्रमेण मरणे प्रवृत्त्युपपत्तेर्न शास्त्रीयत्वमतोऽस्येव पतिमनुमरणेऽपि स्त्रियाः प्रतिषेधः । किंच " तस्मादुह न पुरायुषः प्रेयादिति" प्रत्यक्षश्रुतिविरोधोऽयं स्मृतिरप्येषा २० शक्यते कल्पयितुम् । यथा “ वेदमधीत्य स्नायात्" इत्यध्ययनानन्तरमकृतार्थवबोधस्य स्नानस्मरणमतो मृतपतिकाया अनपत्याया असति भर्तृधनादौ दायिके च कर्तनादिना च केनचिदुपायेन जीवन्त्या जीवितस्यातिप्रियत्वात्तदुपक्षणस्याशास्त्रत्वात्प्रतिषिद्धत्वादापदि सर्वव्यभिचाराणां विश्वामित्रजाघनीम्" इत्यादिनाऽनुज्ञातत्वाद्वयभिचारोपजीविताप्राप्ताविदमुच्यते । काममस्यामवस्थायां शरीरं क्षपयेत् क्षयं नयेत्पुष्पमूलफलैर्थथोपपादं वृत्तिं २५ विदधीत । न तु नामापि गृह्णीयात्पतिर्मे त्वमेवद्येत्यन्यस्य । यत्तु
"नष्टे मृते प्रत्रजिते क्लीवेऽथ पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ इति । तत्र पालनात्पतिमन्यमाश्रयेत सैरन्धकर्मादिनाऽऽत्मवृत्त्यर्थं नवमे च निपुणं निर्णेष्यते ।
For Private And Personal Use Only
४५५
१ ड -अभ्यधिकारः । २ ड क - एकरात्रादिषु । ३ फ र्थो । ४ फ- सर्वाभिचाराणां । ५- त्वमत्यन्यस्य । ६ नारदस्मृतौ अ. १२ श्लो. ९७ ।