________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५४
मेधातिथिभाष्यसमलंकृता ।
[पंचमः.
मङ्गलार्थ स्वस्त्ययनं यज्ञश्वासां प्रजापतेः ॥ प्रयुज्यते विवाहे' तु प्रदानं स्वाम्यकारणम् ॥ १५१ ॥
अभिलषितार्थनिष्पत्तिर्मङ्गलं तत्साधनं तदर्थं प्रयुज्यते । तत्र "प्रजापतेर्यज्ञ" इति क्रियाविशेषणत्वान्नपुंसकम् । स्वस्ति ईयते प्राप्यते येन तत्स्वस्त्ययनम् । यदस्य ५ प्रियं वस्तु विद्यते तन्न नश्यतीत्यर्थः । आसां स्त्रीणाम् । तेषु विवाहेषु । यज्ञः प्रजा
पतेः । प्रजापतर्देवतायाः क्रियते " प्रजापते न त्वदेतान्य ” इति विवाहे आज्यहोमाः केषांचिदानाताः । उपलक्षणं चैतदन्यासामपि देवतानां पूषवरुणार्यम्णाम् । तथाहि । तत्र मन्त्रवर्णाः । " पूषणं नु देवं वरुणं नु देवम् ” इत्यादयो देवतान्तरप्रकाशनपराः ।
प्रदानादेवासत्यपि विवाहे स्वाम्यमुत्पद्यत इत्येतदत्र ज्ञाप्यते । विवाहयज्ञस्तु मङ्गलार्थ १० इत्याद्यविवक्षितम् । दारकरणं विवाह इति स्मर्यते । सत्यपि स्वाम्ये नैवान्तरेण विवाह भार्या भवतीति ॥ १५१॥
अनृतास्तुकाले च मन्त्रसंस्कारकृत्पतिः ॥ सुखस्य नित्यं दातेह परलोके च योषितः ॥ १५२ ॥
सर्वत्रैवाप्रतिषिद्धवर्जमिति अनृतावपि सुखस्य दाता । मन्त्रस्कारो विवाह१५ विधिस्तस्य कर्ता मन्त्रसंस्कारकृत् । परलोके च पत्या सह धर्मेऽधिकाराच्च तत्कलावाप्तेः परलोकसुखस्य दातेत्युच्यते ।। १५२ ॥
* विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ॥
उपचार्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ १५३ ॥
द्यूतातिसक्तो विशीलः । कामप्रधानं वृत्तमस्येति कामवृत्तः। गुणैर्वा परिवर्जितः।। २० श्रुतधनादिगुणविहीनः । उपचार्यः आराधनीयः ॥ १५३ ॥
- नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ॥
पति शुश्रूषते येन तेन स्वर्गे महीयते ॥ १५४ ॥
भ; विना कृतानां यज्ञाधिकारो नास्तीत्येतदसकृत्प्रतिपादितं तेन व्रतोपवासावपि कुर्वती तनुज्ञां गृह्णीयात् । व्रतं मद्यमांसादिनिवृत्तिसंकल्पः न तु कृच्छाणि । तत्र जप
१फ-विवाहेषु । २ फ-उपचर्यः । ३ अ-क-ख-ड-क्ष-गुणहीनः । ४ फ-उपोषणम् ।
* [दानप्रभृति या तु स्याद्यावदायुः पतिव्रता ॥
भर्तृलोकं न त्यजति यथैवारुन्धती तथा ॥१॥ x [पत्यौ जीवति या तु स्त्री उपवासं व्रतं चरेत् ॥
आयुष्यं हरते भर्तुः नरकं चैव गच्छति ॥१॥]
For Private And Personal Use Only