SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [पंचमः शूद्राणां मासिकं कार्य वपनं न्यायवर्तिनाम् ॥ वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ॥ १३९॥ सामान्योक्तः सच्छूद्राणां प्रसंगेनायं धर्म उच्यते । न्यायवर्तिनो द्विजशुश्रूषवो महायज्ञानुष्ठायिनश्च तैर्वपनं मुण्डनं मासिकं कर्तव्यम् । तृतीयार्थे षष्ठी । अथवा ब्राह्मणाश्रितास्तत्परतन्त्रा ब्राह्मणैः कार्यम् । अनेकार्थत्वात्करोतेरुपदेष्टव्यमिति प्रतिपत्तिः। वैश्यवत् शौचकल्पविशेषाः । सूतकादावाचमने च । द्विजोच्छिष्टं च भोजनं एतत्प्राग्व्याख्यातम् ॥ १३९ ॥ * नोच्छिष्टं कुर्वते मुख्या विषुषोऽङ्गं न यन्ति याः ॥ न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ॥ १४० ॥ निष्ठीव्योक्तानृतानि चेति निष्ठीवनआचमनविधानादनाचान्तस्याशुद्धिता ज्ञापिता । विप्रुषामपि मुखान्निष्क्रमणं निष्ठीवनमेव । अतो विप्रुषां श्लेष्मनिरसनरूपनिष्ठीवनादाचमनप्राप्ताविदमाह । मुखे भवा मुखनिर्गता वा मुख्याः । विग्रुष इत्यनुच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्तीति । ननु च “विग्रुषः शुद्धा इत्युक्तं" " मुखना विग्रुष" इत्यत्र उक्तं । दैहिकमलव्यतिरेकेणान्यत्र । इदमेव ज्ञापकं न सर्वो विषयः संदर्शितः । पणि दाडिको१५ लोमानि । आस्यगतानि प्रविष्टानि । नोच्छिष्टं कुर्वन्तीत्यनुषङ्गः । अतश्चान्यत्पूग फलादि जनयत्येव । तथा दन्तान्तरधिष्ठितं लग्नं । स्मृत्यन्तरे विशेषः । “ दन्तश्लिष्टे तु दन्तवदन्यत्र जिह्वाविमर्शनात् प्राक्च्युतेरित्येके च्युतेष्वास्राववद्विद्यान्निागिरन्नैव तच्छुचिरिति " । च्युतेष्वजिव्हयेति विद्यात् निव्हासंसरों शुचित्वनिषेधात् ॥ १४० ॥ x स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।। २० भौमिकैस्ते समा ज्ञेया न तैरयतो भवेत् ॥ १४१ ॥ परानाचमयतः परेभ्य आचमनं ददत इत्यर्थः । एतदुक्तं भवति । यः परस्मा आचमनं ददाति तस्याचमयितृहस्तादधोऽलिविवरेभ्यः पतद्भिरुविन्दुभिर्भूम्यभिवातोत्थैर्य१ अ-क-ख-ड-क्ष-मासि । * [ अजाश्वं मुखतोऽमेध्यं गावोऽमेध्याश्च पृष्ठतः॥ ब्राह्मणाः पादतो मेध्याः स्त्रियोऽमेध्याश्च सर्वतः॥१॥ गौरमेध्या मुखे प्रोक्ता अजाऽमेध्या ततः स्मृता॥ गोः पुरीषं च मूत्रं च मेध्यमित्यब्रवीन्मनुः ॥२॥J २ फ-विग्रुषोऽङ्गे पतन्ति याः। ३ अ-क-ख-ड-क्ष-मक्षिकाविग्रुष इत्यत उक्त । ४ ड-व्यतिकरण। ५ ड-दाढिका । ६ गौतमीये अ. १ सू. ४१-४३ । ७ फ-रा। x [ दन्तवद्दन्तलग्नेषु जिव्हास्पर्शेषु चेन्न तु ॥ परिच्युतेषु तत्स्थानानिगिरनेव तच्छुधिः॥१॥] For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy