________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः । द्याचमनस्य दातुः पादौ स्पृश्येते तदा न तैरशुचिर्भवति । भौमिकैर्यथाऽनुपहतायां भूमौ स्थिताः काश्चिदुदकमात्राः शुद्धा एवं तेऽप्युच्छिष्टा हत्तात्पतन्त उदबिन्दवः । न तैः स्पृष्टः अप्रयतः अशुचिः । परग्रहणाद्य आचामति तेन तत्संसर्गो रक्षितव्यः अन्येन च समीपस्थेन । पादग्रहणाच्च जङ्घाद्यन्तस्पर्शो दुष्ट एव ॥ १४१ ॥
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ॥
अनिधायैव तद्रव्यमाचान्तः शुचितामियात् ॥ १४२ ॥ आचमनाhण प्रायश्चित्तेन युक्तः पुरुष उच्छिष्ट उच्यते । तद्यथा कृतमूत्राद्युत्सर्गश्चाकृतशौचाचमनादिश्च यश्चामेध्यादिसंस्पर्शदूषितो यदि पुरुषो द्रव्यहस्तो हस्तेन च गृहीतं भक्ष्यभोज्यादि द्रव्यवस्त्रादि वा येन स उच्यते द्रव्यहस्तः । वज्रहस्तादिवत्प्रयोगवव्यवस्था । स चेत्स्पृष्टो भवति तदा अनिधायैव तद्रव्यमनपनीय हस्तगृहीतद्रव्य १० एवाचामेत् । कथं पुनर्हस्तस्थे द्रव्य आचमनसंभवः । आ मणिबन्धनात्पाणी प्रक्षालयेदिति तत्र विधिः । केचिदाहुः । शरीरसंस्पर्शमात्रं द्रव्यस्य विवक्षितं न हस्तस्यैव एवमशुद्धावपि स्कन्धाद्यारोक्तेिऽपि द्रव्ये उच्छिष्टस्याशुद्धतैव तथैवाचान्ते शुद्धिः। अतो हस्तात्प्रदेशान्तरे प्रकोष्ठोत्सङ्गादिके तु द्रव्यं गृहीत्वाऽऽचामेत् । अभिप्रायो यथैव पुरुषाशौचसंबन्धादशुच्येवं तस्यैवान्नशुद्धिः । गौतमेन तु “ द्रव्यहस्त उच्छिष्टो निधायाचामेत् " १५ इत्युक्तम् ( अ. १ २.२७ ) । अत्र व्याख्यानयन्ति । सत्यपि तुल्यसहितत्वेऽत्र निधानमेवाभिप्रेतम् । इतरथा द्रव्यहस्तस्योभयोः शद्धौ कर्तव्याया कः प्रसंगो द्रव्यनिधानस्य अतोऽन्तरेण वचनं निधानाप्राप्तेर्वचनं निधानार्थमेव । कथं तर्हि द्रव्यस्य शुद्धिः प्रयतेन पुरुषेण ग्रहणात् । स्मृत्यन्तरविहितेन वा प्रोक्षणेन ॥ __"प्रचरन्नन्नपानेषु उच्छिष्टं संस्पृशेयदि। आवामेद्रव्यमभ्युक्ष्म एवं चैव न दुष्यति।" इति । २० यद्यन्तरेण वचनमत्र निधानं लभ्यते अप्यनिधायैवेति वचनमनर्थकम् । एकवाक्यत्वात् स्मृतीनामिह निश्चितेन विधानेन तथाऽप्येवं विज्ञायते । अय पुनर्मतभेदो गम्यते । ततश्च विकल्पः । तस्य च व्यवस्था । गरीयो द्रव्यं निधीयते अन्यदङ्गस्थं कृत्वाऽवगम्यते । यदाऽपि स्वयमन्नमभाति भूयिष्टं वा उच्छिष्टं स्पृशति आचमनान वा कृताचमनेन स्पृश्यते । सर्वोऽपि द्रव्यस्योच्छिष्टं संस्पर्शः ॥ १४२ ॥
* वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् ॥
आचामेदेव भुक्त्वाऽनं स्नानं मैथुनिनः स्मृतम् ।। १४३ ॥
* [अनृतौ तु मृदा शौचं कार्य मूत्रपुरीषवत् ॥
ऋतौ तु गर्भशङ्कित्वात्स्वानं मैथुनिनः स्मृतम् ॥ २॥]
For Private And Personal Use Only