SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ४४७ नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने ॥ प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ १२९ ॥ मेध्यतयाऽशुचित्वमाह । सर्वस्त्रीणामास्यं शुचि परिचुंबनादौ " स्त्रियश्च रतिसंसर्ग" इति स्मृत्यन्तरम् । रतिसंबन्धिनीष्वेव न मातृभगिन्यादिषु । अत्र उछिष्टप्रतिषेधोऽयं न मन्तव्यो योषितः । सत्यपि रतिसंवन्धित्वे " नाश्नीयाद्भार्यया सार्धम् " ६ इतिवचनान्न भुज्यतेति सिद्धं चतुर्थाध्याये । नित्यग्रहणान्न संयोगवेलायामेव किंतर्हि तदर्थायां मन्त्रप्रवृत्तौ । शकुनिः फलपातने पक्षिमात्रवचनेऽपि शकुनिशब्दः काककङ्कादीनां विटभुजा नेष्यते । समाचारात्पातनग्रहणाव्हक्षस्थस्य फलस्यायं विधिः । प्रस्रवे दुह्यमानाया गोर्वत्सः पयः प्रक्षरणार्थ स्तनेषु संश्लिष्यते । अथवोच्यते " गावो मेध्या मुखाहते " १० इति वचनादशुचित्वे प्राप्ते तन्निवृत्त्यर्थं वचनमतस्तदीयास्यसंस्पर्शस्य । न तु श्वा शुचिः । मृगं तु यदाऽऽखेटकादौ गृह्णाति हन्तुं तदा शुचिः ॥ १२९ ॥ * श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् ।। क्रव्याद्भिश्च हतस्यान्यैश्चण्डालायैश्च दस्युभिः ॥ १३०॥ पूर्व " श्वा मृगग्रहण' इति मृगवधे श्वा शुचिरित्येतावदेवें विवक्षितं इह तु तेन १५ गृहीतोऽन्यैर्वा दण्डादिघातेनेति विशेषः । उत्तरार्ध श्लोकार्थो विधीयते । क्रव्याद्भिः श्येनजम्बूकप्रभृतिभिः । चण्डालायैः आदिग्रहणं श्वापदादीनामबाधाय । दस्यवो निषादव्याधादयः प्राणिवधजीविनः ॥ १३० ॥ ऊर्ध्व नाभेर्यानि खानि तानि मेध्यानि सर्वशः ॥ यान्यधस्तान्यमेध्यानि देहाचैव मलाश्युताः ॥ १३१॥ २० खशब्दोऽयमिन्द्रियवचनः । तेन कर्मेन्द्रियाणि पादयोर्गहणे यान्यधस्तान्यमेध्यानि । बहुवचनं एतदयुक्तं ऊर्ध्व नाभेरित्यनेन विरोधात् । तत्र नाभेरूज़ मेध्यतरत्वमुक्तम् । प्रकर्षश्च । यद्यधस्तान्मेध्यत्वं भवति तत उपपद्यते। न हि भवति शुक्लः कृष्णतर इति । न चायमिन्द्रियवचनः । किंतर्हि छिद्रार्थोऽयम् । तदुक्तं "सप्तशीर्षण्याः प्राणाः" इति । १ अ-क-ख-ड-क्ष-तदर्थायामेव प्रवृत्तौ । २ अ-क-ख-ड-क्ष यथा । ३ अ-क-ख-अत्र * शुचिरग्निः शुचिर्वायुः प्रवृत्तो हि बहिश्चरः। जलं शुचि विविक्तस्थं पन्था संचरणे शुचिः॥१॥] For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy