________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः। अशक्ये पुरीषादिलेपापनये अनादृत्याश्रुतसंख्याऽधिकाऽप्याश्रयणीया। संख्यावचनं तु ततो न्यूनतयाऽप्यपनीते लेपे संख्या पूरयितव्येत्येवमर्थम् । मृद्वारिग्रहणं शुद्धिसाधनोपलक्षणार्थ वर्णयन्ति । अतश्च यद्यप्यशुद्धिहेतुर्भूतं वारिणा क्षालितमपि क्षारादिना संमार्टव्यमन्यथा न दृश्येत । अपैति अपगच्छति निवर्तत इति यावत् । तत्कृतस्तेनामेध्येन कृतः । अतश्च कस्तूरिकादि वस्त्रगंधो नापैति नैव दुष्येत । कुंकुमाद्यनुलिप्तस्य यः प्रदेशोऽमेध्येन ५. संसृज्येत्तत्र कुंकुमाद्यप्यपमानितव्यम् । अमेध्यसंसृष्टं हि तत् । तत्रापि गन्धलेपग्रहणात् ।। यदि गात्ररूढः कुंकुमवर्णो निघृष्यमाणो न शक्येतापक्रष्टुं स्यादेव शुद्धिः ॥ १२५ ॥
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ॥
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ १२६ ॥ पवित्राणि शुद्धानि। देवग्रहणं स्तुतिः। ब्राह्मणग्रहणमपि समाचारात्तत्सर्ववर्णार्थम् । १० अदृष्टं यदनारक्षप्रदेशस्थं द्रव्यमदुष्टश्वकाकादिसंसर्ग न च सद्भावमात्रेण तदुपघाताशङ्का निष्प्रमाणिका कर्तव्या । एवं महानसादौ सदादिभिरकृतशौचैर्व्यवहरद्भिः पाक्यं द्रव्यमदृष्टं परिभोक्तुं न दुष्यति न पुनरियमाशङ्का कर्तव्या उत्तरकाले तत्प्रागविज्ञातोपधाते न दोषः । तथाहि “अमत्यैतानि च” इत्यादि विरुध्येत । एवं तावद्यत्र दोषसंबन्धो न केनचित्प्रमाणेनावगम्येत तच्छुद्धम् । यत्र पुनरसत्यपि निश्वायके प्रमाणे कुतर्केण संभाव्यते तत्रा- १५ द्भिक्तिव्यम् । यथा समानदेशस्थालीपीठरादिश्वकाकादिभिरुपहन्यमानं दृष्टम् । अन्यददृष्टमप्यद्भिनि”क्तव्यम् । तथैवंविधमेव वाचा प्रशंसनीयम् । शुद्धमेतदस्त्विति शिष्टा वाचयितव्याः । ब्राह्मणवचनाच्छुद्धिर्भवतीत्याहुः । प्रशस्यत इति लडयं विधौ द्रष्टव्यः । ये त्वाहुर्दृष्टोपघातं यत्तस्य व्यवहा साक्षाच्छुद्धौ क्रियमाणायामदृष्टायां शिष्टाश्चेदाहुः कृतमस्य शौचमिति तत्र प्रत्येतव्यमिति वाक्प्रशस्तस्यार्थस्तद्युक्तम् । २० आप्तवचनस्य सर्वत्रैवाप्रामाण्यस्यानङ्गीकृतत्वात्पौनरुक्त्यप्रसङ्गः। अन्ये त्वद्भिनिर्णित्तमिति दृष्टान्ततया व्याख्यानयन्ति । अदृष्टवाक्प्रशस्ते विधीयते । यथाऽद्भिनिर्णिक्तं शुद्धमेवे. मदृष्टं वाक्प्रशस्तं विधीयते । ननु च यद्यदृष्टदोष प्रत्यक्षानुमानागमैः शुद्धं तत्कथं संवत्सरस्यैकमपीति भक्ष्यविषयं तत्पृश्यविषयाशुद्धिरियं गुरुलघुतया वा आपदनापद्भेदेन वा व्यवस्था ॥ १२६ ॥
आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् ॥ अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ॥ १२७ ।।
१ अ-क-ख-ड-क्ष-हेतुभूतवारिणा । २ फ-क्षीरादिना ३ फ-न पश्येत् । ४ अ-क-खड-क्ष-प्राणाण्यस्य । ५फ-शुद्धमेव न दृष्टं।
For Private And Personal Use Only