________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
www.kobatirth.org
मनुस्मृतिः !
प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति ॥ मार्जनोपाञ्जनैर्वेश्म पुनः पाकेन मृन्मयम् ॥ १२१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
I
व्रीह्यादिकाण्डं स्त्रस्तरादिप्रयेोजनं पलालम् । तृणानि कुशशाद्वलादीनि । ननु च दारवाणामित्यत्र विकृतिः प्रकृतेर्ग्राहिकेत्युक्तं किमर्थं काष्ठग्रहणम् । नियमार्थम् । प्रोक्षणमेव । तेन यावन्न महानुपघातस्तावद्दारूणि तक्ष्यन्ते । चण्डालादिस्पर्शे तु " सोमसूर्यांशु- ५ मारुतैः ” इत्यनेनैव शुद्धिः । तद्विकारणां तु दर्व्यादीनां प्रक्षालनतक्षणे स्वल्पोपघाते ऽन्नाद्युपयोगिनां कर्तव्ये । मार्जनं शोधनं गृहस्य धूमांधकाराद्यपनयनम् । उपाञ्जनं सुधागोमयादिभिर्भूमिविलेपनम् । एतच्च शवचण्डालोदक्यादिभिर्भित्तिसंस्पर्शे व्यापिनि द्रष्टव्यम् । अव्याप्तौ तु तावन्मात्रस्यैव । उर्ध्वं शवोपघाते तु भित्तितक्षणं सूर्यरम्यनुप्रवेशोऽग्निज्वालाभिमर्शनम् । क्वचित्पुनर्नवीकरणमित्यादिपठितं संमार्जनम् । मृन्मयानां १० पुनःपाकः । पर्यग्निकरणमुच्छिष्टपुरुषसंस्पर्शादौ द्रष्टव्यम् । पुनःपाकस्तु मद्यभाण्डादिसंस्पर्शे द्रष्टव्यः । साक्षात्स्पर्शे तु त्याग एव । यथोक्तम् ( वासिष्ठे अ. १ – ५९, ) “मद्यैर्मूत्रपुरीषैर्वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुध्येत पुनः पाकेन मृन्मयम् ॥ इति ॥ १२१॥
1
पक्षिजग्धं गवा घातमवधूतमवक्षुतम् ॥
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ १२४ ॥
४४३.
संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च ॥
गवां च परिवासेन भूमिः शुद्धयति पञ्चभिः ॥ १२२ ॥ सेको गोमूत्रणोदकेन वा । क्षीरेणापि क्वचिदुक्त: । उल्लेखनं शस्त्रादिना लेखाकरणं आवापनं च । “ आवापनं च भूमेरिति " गौतमनिर्देशादेव ( अ. १ सू. ३१ ) । पञ्चभिरिति पुनर्वचनमभिघातापेक्षया व्यस्त समस्त प्रयोगदर्शनार्थम् । तत्र संमार्जनशून्यं शोधनमुपाञ्जनं स्वयंकर रहितायाः केवलमपि । मूत्रपुरीषादिलेपे उल्लेखनसंमार्जने। सेको नदीपुलिनवनादिषु । गवां परिवास: एकाहमात्र गोष्ठीकरणम् । एतच्च श्मशानभुवः २० सबै कर्तव्यम् । आवपनं तु यत्र पूर्वमस्थिकपालिकाद्यस्ति तदुद्धृत्य मृदामन्यासां प्रक्षेपो यत्र चान्तर्हितमेवमादिकालान्तरेणाशङ्कयमानसद्भावमित्यादिवत्तत्रापि ॥ १२२ ॥
For Private And Personal Use Only
१९.
१ अयं हि श्लोकः कुल्लकादिभिः मनुवचनत्वेन व्याख्यातः । मेधातिथिना तु स्मृत्यन्तरोक्त इति संगृहीतः । गोविंदराजेन वसिष्ठस्मृतिस्थ इति कृत्वोद्धृतः । २ - फ - आकारहितायाः ।