________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अव्यायः]
मनुस्मृतिः।
श्लोकद्वयं श्रुतिसिद्धार्थानुवादेन दृष्टान्ततया नेयम् । ग्रहचमसादीनां यज्ञपात्राणां प्रयोगान्तरे प्रयुज्यमानानां पूर्वप्रयोगलग्नाज्यहविलेंपादिसंसर्गपरिहारार्थमुष्णेन वारिणा लेपाद्यपकर्षः कर्तव्यः । ततो यथाश्रुति क्वचित्पाणिना कचिभैः क्वचिद्दशापवित्रेण संमार्गः कर्तव्यः । इयं प्रायोगिकी शुद्धिः । उच्छिष्टाग्रुपघाते तु लौकिकपात्रवत् । “ न सोमेनोच्छिष्टा भवन्तीति" विशेषश्रुतेरन्यत्रोपघाते सामान्यशुद्धिरस्तीति ज्ञायते । ग्रहचमसस्पया ५ याज्ञिकम्य आकारविशेषेणावसातव्याः ॥ ११५ ॥
चरूणां मुक्सुवाणां च शुद्धिरुष्णेन वारिणा ॥
स्फ्यशपेशकटानां च मुसलोलूखलस्य च ॥११६ ॥ * अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ॥
प्रक्षालनेन त्वल्पानामद्भिः शौच विधीयते ॥ ११७ ॥ १० बहुत्वं धान्यानां द्रोणाधिक्ये स्मयते । अन्ये तु पुरुषापेक्षया देशकालापेक्षया च वर्णयन्ति । कस्यचिद्दर्गतस्य कुडवार्धमपि बहु भवति । तथा कस्यांचिदवस्थायां वर्धितकोशी बहुतामेति । यथाह बौधायनः (धर्म सू. १।९।४७ )
"देशं कालं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम्। उपपत्तिमवस्थां तु ज्ञात्वा शुद्धिं प्रयोजयेत्॥" एवं वासःस्वपि कोचिदाहुः “ त्रिभ्य ऊर्ध्वं बहूनि"। यद्यपि त्रिप्रभृतिषु बहुत्वं १५ यतोऽल्पानामिति बहुवचनं श्रुतमतस्त्रिपर्यन्तान्यल्पानि । अद्भिरित्युपलक्षणम् । तेन यस्य वाससो येनैव दोषसंसर्गो व्यपैति तदपि द्रष्टव्यम् । तच्च प्राग्दर्शितम् । प्रोक्षणसंबंद्धोऽ ब्ग्रहणनियमार्थः। उदकेनैव प्रोक्षणं कर्तव्यम् । एतनैव च भेदेन द्विःपाठः। एतच्च महत्युपघाते शवपुरीषचाण्डालादिस्पर्शे अन्यथा त्वल्पानामिति प्रोक्षणमेव । यदि पर्यवस्यतोऽपि लेपादि वाससो नापैति तदा तन्मात्रछेदनम् "उत्सर्गो वेति" गौतमेनोक्तम् ॥ १६ ॥ ११७॥ २०
चैलवच्चर्मणां शुद्धिवॆदलानां तथैव च ॥
शाकमूलफलानां तु धान्यवच्छुद्धिरिष्यते ॥ ११९ ॥ ८/ चर्मणां वर्धाणां स्पृश्यानां न तु श्वशृगालादिसमन्वितानां स्वभावाशुचीनां उपानत्कवचादीनामपि तद्विकाराणामेष एव विधिः । अत्र हि प्रकरणे प्रकृत्याऽपि विकृति
* [व्यहकृतशौचानां तु वायसी शुद्धिरिष्यते।
पर्युक्षणात्धूपनाद्वा मलिनामतिधावनात् ॥१॥ १अ-क-ख-ड-क्ष-पर्यवस्वतोऽपि। २ अ. १सू. ३३ ॥३अ-क-ख-ड-क्ष-बत्राणाम् ।
For Private And Personal Use Only