________________
Shri Mahavir Jain Aradhana Kendra
४४०
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
" गवाघातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । शुद्ध्यन्ति दशभिः क्षारैः श्वका को पहातानि च ॥ " इति ।
अत एव क्षारभेदाश्च काञ्जिकदाडिमादियोजिताः सिद्धा भवन्ति ॥ ११३ ॥ द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् ॥
प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ११४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
क्षरणधर्माणो द्रवाः । घृततैलोदश्वित्प्रभृतयस्तेषां च काकाद्युच्छिष्टानां प्रस्थमात्र परिमाणानामुत्पवनं कस्यचिदंशस्यापनयनं पूर्वभागस्थितस्य । स्मृत्यन्तरे स्वेवमाम्नातम् “कुशाग्राभ्यां पवमानः सुवर्जन" इत्यनुवाकेन । अन्ये तु प्लावनमुत्पवनमा हुरन्यत्समानजातीयं तावदासिच्यते यावत्पूर्णे भाण्डे कांश्चिन्मात्रा अवस्रवन्ति । साक्षादुपघात तत् १० अल्पानां त्याग एव । भाण्डोपघाते तु पात्रान्तरनयनमुच्छिष्टसंस्पर्शे तु तैलसर्पिषी उदके ऽवधाय जपेदित्युक्तम् । तत्रार्थात्पात्रोत्क्षेपः । न हि तैलस्य उदके क्षिप्तस्य पात्ररहितस्योपयोगः संभवति साहचर्यात् घृतस्यापि । एतच्चोत्पवनं द्रवाणाम् । मद्यामेध्यसंसर्ग - कृतौ गन्धवर्णौ न दृश्येते तयोस्तु सत्योस्त्याग एव । सर्वं चैतद्बौधायनस्मृतौ परिगृहीतम् । पक्वानां तु द्रव्याणां पुनःपाकोऽपि शङ्खनाम्नातः । सर्वेषां येऽप्यमेध्या मद्यादयस्तेषा१९ मध्येषैव शूद्रादीन्प्रति शुद्धिः । अत्र तूत्पवनं प्लावनमेव । यथा वसिष्ठेनोक्तं “ भूमिष्ठानां तूदकवत् " ।
संहताः कठिनाः । शीतं घृतं आमिक्षागुडपर्पटेकादयस्तेषां यः प्रदेश उपहतस्तमपनीय शेषस्य शुद्धिः । उक्तंच शङ्खन " शुष्काणामुद्धृतदोषाणामिति " । अथवा समुदायादवयविनः संहताः शयनासनसरणादयः सजातीयविजातीयद्रव्यसंघातात्मकाः । २० उद्धृतदोषाणामिति सर्वत्र द्रष्टव्यम् । शवशुष्कामेध्यसंसर्गेषु यः प्रदेशो वृत्तसंसर्गस्तस्य प्रक्षालनमवशिष्टस्य प्रोक्षणम् ।
१ फ- स्पर्शे । २ फ - वृशी ।
[ पंचमः
दारवाणां केवलदारुकृतानां वृसीफलकादीनां काष्ठमयानां च शवचण्डालपुरीषसंसर्गे तक्षणम् । अन्ये तु पुरीषसंसर्ग एवेच्छन्ति । तक्षणेन गन्धले पाद्यपनेतव्यम् । अवशिष्टस्य मृद्वारिभ्यां प्रक्षालनं प्रोक्षणं वा । श्वाद्युपघाते तु प्रक्षालनमेव पुरीषवत्खा२५ शय्याय्यादीनां च दारुचर्मसूत्रघटितानां संहतत्वेन शुद्धिः ॥ ११४ ॥
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥
चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ ११५ ॥
For Private And Personal Use Only