________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
।
लेपगन्धापकर्षणवचनाच्च यो लेपो येनैवापक्रष्टुं शक्यते तत्र तदेवोपादेयं न भस्मवारिणी । " एव । तथा च हारीतः “ गोधूमम कुष्ठककलाय यवमुद्गमसूरचूर्णैः " इत्यादि पठति । एवं " श्वचाण्डालोदक्यादिस्पर्शे तु निर्लेपयोरपि मस्मना त्रिःसप्तकृत्वः परिमार्जनामिति " हारीतः । शङ्खस्तु " तैजसानां कुणपरुधिररेतोमूत्रपुरीषोपहतानामावर्तनमुल्लेखनं भस्मना वा त्रिःसप्तकृत्वः परिमार्जनमिति ” । तत्र चिरकालमूत्रादिवासितानामावर्तनम् । नामाकृतिमुपमृद्येच्छातस्तदाकृतिसंपादनमावर्तनम् । उल्लेखनं तीक्ष्णेन शस्त्रेणाश्मना वा निघर्षः । स्मृत्यन्तरे त्वाकारदाहावचूलनान्याम्नातानि तत्र सुवर्णकारैर्वर्णकृतस्य शुद्धिः । दाहः अग्नौ सुवर्णकारैर्निष्टापनम् । अवचूलनं दाहो नातीतानां सुवर्णकाराणां सुवर्णभाण्डे तेन सर्वत अहननम् । तस्मिन्स्वकारे । तथा चोक्तं " आकराः शुचयः सर्व” इति । अब्नं शङ्खस्फोटनादि । शङ्खस्य तु सलेपस्य गौरसर्षपकल्केन गोमूत्र - १० दुकाभ्यां क्षीरेण च । स्मृत्यन्तरे हि पठ्यते " अद्भिः शङ्खस्येति ” “ क्षीरोदकाभ्यां गौरसर्षपकल्केनोच्छिष्टस्नेहयुक्तस्येति " । अनुपस्कृतमखातपूरितमथवाऽत्यन्तानुपहतम् । सर्वशेषश्चायम् । तेन शुष्कामेध्यचण्डालादिस्पर्शे सत्यपि निर्लेपस्वे प्राक्प्रदर्शितेव शाखान्तरीया शुद्धिः ॥ १११ ॥
अपामश्च संयोगार्द्धमं रौप्यं च निर्बभौ ।। तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥ ११२ ॥
ताम्रायः कांस्यरैत्यानां त्रपुणः सीसकस्य च ॥ शौचं यथाई कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ११३ ॥
४३९
अर्थवादोऽयम् । “अग्निर्वै वरुणानी" त्यार म्याकामयतेत्याद्यर्थवादेषु हेम्नः सुवर्णस्य I रूप्यस्य चोत्पत्तिः श्रुता । पुरुषधर्मेणाग्निर्वरुणानीरपोऽकामयत मैथुनधर्मेण समयुज्यत तत एत्द्वयं निर्बभौ उद्भूतं अतस्तयोः स्वयोन्या स्वेनोत्पत्तिकारणेनाग्निना अत्यन्तोपघात उदकेन च । “ सयोन्येति ” पाठे समानोत्पत्तिना भस्मनेति व्याख्येयम् । तद्दर्शनाच्च २० मृदोऽपि कदाचिदनुज्ञायन्ते । निर्णेकः शोधनं गुणवत्तरः ॥ ११२ ॥
यथार्हं यस्य यदर्हति येन यस्य मलमपक्रष्टुं शक्यत इत्यर्थः । अत एव स्मृत्यन्तरोक्तमपि लभ्यते “ वाहनीयास्त्र पुसीसकविकारा गोमयतुषैरिति ” । यथा
For Private And Personal Use Only
१५
२५
१ फ- कसाय । २ फ-निष्टपनम् । ३ अ-क-ख-ड-क्ष- णानीनाम् । ४ अ-क-ख-ड-क्षअनुपजायन्ते । ५ अ-क-ड-क्ष- रौप्यानां ।