________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
तदशुचि । कथं च तस्यायोग्यतेत्येतच्छास्त्रादेव विवेक्तव्यम् । किंच परद्रव्यादौ यो न स्खलति स शुचिरुच्यते । अतोऽनया पदार्थप्रसिध्येह किंचित्सिध्यति अपहतमशुचीति सिद्धेऽपि इदमनेनापहन्यत इति । नान्तरेण शास्त्रविशेषः सिद्ध्यति कथं पुनः शास्त्रात्पदार्थविशेषावसायो यावता कर्तव्यतापरत्वेन शास्त्रं प्रमाणं न पदार्थप्रसिद्धौ पाणिनिवत् । वेदमूलत्वाभ्युपगमान्मन्वादिस्मृतीनामुच्यते । अनेन द्रव्येण यद्दुष्टं तेन १ न व्यवहर्तव्यमित्यस्त्येव विध्यनुमानम् । यत्संसर्गेण व्यवहारप्रतिषेधः स उपघातहेतुरित्यवगमो न विरुध्यते । एवं शुद्धावपि यदुपहतं द्रव्यं तेन यथाविहितं कृतप्रक्षालनादिक्रियेण व्यवहर्तव्यमिति शक्यते विधिमूलता प्रतिपत्तुम् । न च शुद्धिः कर्तव्येतिविध्यर्थः । तथा सत्यकुर्वन्प्रत्यवेयात् । किंतु दृष्टायें व्यवहारे येन के (न) चित्पत्रिण शुचिनाऽन्येन वा कर्तव्येऽर्थित्वात्प्राप्ते नियमः शास्त्रीयः । इत्थंभूतेन व्यवहर्तव्यं १० सत्यर्थित्वे नानित्थंभूतेन ।
४३७
""
ननु च नियमपक्षेऽभ्युदयार्थिनोऽधिकारः । अन्यस्य तु कामप्रसँगः । यथा कुसाधुत्वचिन्तायां वाचकत्वाविशेषेऽपि “ नियमः पुण्यपापयोरिति । सत्यम् । यद्यशुद्धे पात्रस्य प्रतिषेधो न स्यात् प्रतिषेधे तु सति कुतोऽकृतशुद्धिना व्यवहारः | शुद्धिविधिस्तु प्रतिप्रसवमात्रम् । प्रतिप्रसवे कुतोऽभ्युदयः । केवलं १९ प्रतिषेधातिक्रमो न भवति । भवतु वा पदार्थाधिगमपरैव स्मृतिरियं साध्वसाधुविवेकवरस्वल्पस्मृतिवच्च यत्तु कार्यमूलत्वं मन्वादिवाक्यानामिति । केनैतदुक्तं यत्र यादृश्यं मूलत्वेन शक्यतेऽवगन्तुं तत्र तदेवाम्युपगम्यते । अष्टकादौ कार्यरूपे तादृशमेव वाक्यं मूलं सिद्धों1 र्थमेव । पदार्थव्यवस्थायामिदंप्रथमता व्यहारमूलेति न कदाचित्कृतिः । इह तु न कथंचिद्व्यवहारमूलं संभवति वैदिकमन्त्रसाध्यायां च शुद्धौ का व्यवहारमूलता शक्या विधि - २० श्वानर्थकः
1
कः स्यात् ।
ननु च पाणिनेरपि विधिरस्ति साधुभिर्भाषितव्यं नासाधुभिरिति नैषा पाणिनेः स्मृतिः । सा ह्येतावति पर्यवसिता साधुरयमयं नेति एतत्तु धर्मसूत्रकारिणां स्मरणं यद्यप्यस्ति अभिधानसाराच्चैतन्निपुणतोऽवगन्तव्यम् । ननु तत्स्मृतावपि विधिः श्रूयते । दायादा एवं विभजेरन् “ चतुरोंऽशान् हरेज्ज्येष्ठः " ( अ. ९ श्लो. १५३ ) । “ ज्येष्ठ एव तु २१ गृह्णीयादिति " ( अ. ९ श्लो. १०५) । किं विध्यर्थ एव लिङ्गान्तरे प्रषादो स्मर्यते । पदार्थ विधिरूपा विधिशेषाः प्रैषादयः सर्वत्र प्रवर्तनाप्रतिपत्तेरिति चेत् । हेतुहेतुमतोराशिषि प्राप्तकालादिषु का प्रवर्तना न च ग्रहणं विधेयं अर्थितया प्राप्तत्वात् ।
For Private And Personal Use Only
१ अ-क-ख-ड-क्ष-विशुध्यर्थः । २ अ-क-ख-ड-क्ष- सत्यनार्थत्वे । ३ अ-क-ख-ड-क्ष -- सिद्धे स्वर्थेऽविषयमेव । ४ फ - धर्मसूत्रकारिणां यद्यप्यस्ति । ५ फ - परिभजेरन् । ६ ड-श्रवणं । ७फ-विधेयः ।