________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः। कोऽस्य प्रसंगः । यथा मृद्वारिशचावविलम्ब कृतोत्सर्गः प्रवर्तते तथा प्रमादस्खलिते परद्रव्यापहरणादावविलम्बितं प्रायश्चितं शुद्धये समाश्रयणीयम् ॥ १० ॥
क्षान्त्या शुद्धयन्ति विद्वांसो दानेनाकार्यकारिणः ॥
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥१०६॥ एकादशे वक्ष्यति । ये विद्वांसस्ते क्षान्त्यैव शुध्यन्ति । ते हि द्वेषामत्सरै!पह- ५ न्यन्ते ततो दुष्कृतेषु प्रवृत्तेषु नित्यशुद्धा भवन्ति । शान्ति म चित्तधर्मः सर्वत्र साम्यम् । दानस्याप्यकार्यकृच्छुद्धिरुक्ता " दानेन वधनिर्णेकम् " [ अ. ११ श्लो. १३९ ] इत्यादिना प्रच्छन्नपापानामपि रहस्याधिकारे जप उक्त एव । तपो वेदविंदां वेदाभ्यास एव ज्ञानं च यथोक्तं " ब्राह्मणस्य तपो ज्ञानम्" इति [ अ. ११ श्लो. २३५] । कृच्छ्रादि तु सर्वेषां शुद्धिहेतु न वेदविदामेव ॥ १०६ ॥
मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ॥
रजसा स्त्री मनोदुष्टा सन्यासेन द्विजोत्तमाः ॥ १०७ ॥ नद्यः पारावारे क्षीणोदकाया अशुध्युपहते तस्या एव वेगागतायाः कूलंकषाया उदकं वेगेन शुध्यति । यथान्यस्या भूमेः " भूमिः शुध्यति पञ्चभिरिति । ( श्लो. १२३ ) शुद्धये प्रतीति वं नदीतीरेषु । अथवा वेगवत्या अशुचिप्रवाहसंसर्गेणा- १५ शुच्याशङ्कायमिदमुच्यते नदी वेगेनेति । नैवं मन्तव्यं इतश्चामुतश्चाशुचिप्रवाहैः संस्पृष्टा न शुध्यति । शारीरे व्यभिचारेऽनुपलभ्यमाने परपुरुषरूपगुणानुचिन्तनेन मनोदुष्टा रजसा ऋतौ शोणितेन स्रुतेन शुध्यति स्त्री । सन्यासः षष्ठे वक्ष्यते । तेन द्विजोत्तमाः शुद्धा भवन्ति । न कथंचिन्मानसापचारे यदविदुषा चिन्तितसूक्ष्मप्राणिवधादि तदेषामपनीयते ॥ १०७ ॥
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ॥
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्धयति ॥ १०८॥ इयानेवाधिकारी कर्ता च पुरुषो यदान्तरात्मा अन्तःकरणं मनः बुद्धिः । शरीरं भोगायतनं इन्द्रियाणां भौतिकत्वान्न पृथक्त्वम् । अत्र किंचित्केनचिच्छोध्यते । 'कालेन तु सर्वमिति' स्तुतिपरम् । गात्राणीत्यवयवैरवयविनं लक्षयति । अद्भिः स्न,नेन २५ शरीरं शुध्यति । मनस्तु सदसदात्मकं तस्यासत्संकल्पादशुद्धिः सत्येन साधुसंकल्पेन निवर्तते । पूर्व मनसः शुद्धिहेतुत्वमुक्तं तदध्याहारेण नेदं वाचोमनःशुद्धिकरणम् । तथा च श्रुतिः " मनसा वा इपिता वाग्वदति याँ ह्यन्यमना वाचं वदत्यसुर्या वैसा
१ अ-क-ख-ड-क्ष-अकार्यव (च्छु ?) द्विक्ता । ३ फ-सुतेन । ३ अ-क-ख-ड-क्ष-यद्वा
किंचिदशाञ्चिन्तितं सूक्ष्मप्राणिविधादि न दोषामपनीयते । ४फ-यां।
For Private And Personal Use Only