________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३४
मेधातिथिमाष्यसमलंकृता ।
[पंचमः
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च ॥ स्नात्वा सचैलं स्पृष्टाऽनिं घृतं पाश्य विशुद्धयति ॥ १०२॥
अनुगमनं बुद्धिपूर्वमनुजनम् । यथाकथंचिदधिगमने न च सचैलम् । स्नान अग्निस्पर्शो घृतप्राशनं च सर्मुच्चितं शुद्धिहेतुः ॥ १०२ ॥
न विषं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ।।
अस्वा ह्याहुतिः सा स्याच्छूद्रसंस्पर्शदूषिता ॥ १०३ ॥ न नाययेन निरियेत् । स्वेषु तिष्ठत्सु समाननातीयेषु सत्सु । आहुतिग्रहणान्न दाहयेदिति । विप्रग्रहणमतन्त्रम् । क्षत्रियवैश्ययोरपि शूद्रसंस्पर्शो दोष एवेत्यर्थवादात्प्रतिषेधः प्रतीयते ॥ १०३ ॥
ज्ञानं तपोऽग्निराहारो मृन्मनो वायुपाञ्जनम् ॥ वायुः कर्मार्ककालौ च शुद्धेः कर्तृणि देहिनाम् ॥ १०४ ॥
ज्ञानादीनि कालशुद्धेः दृष्टान्ततयोपादीयन्ते । तथैतानि स्वविषये शुद्धिकारणानि । एवं कालोऽपि नात्रातिशङ्कितव्यः । एतेषां यस्य यत्र शुद्धिहेतुत्वं तदिहैव प्रकरणे तेषां वक्ष्यते । अन्येषां तत्र तत्र देशे।
तत्र ज्ञानमाध्यात्मिकं साङ्ख्ययोगोपदिष्टं तेन हि अविद्यावासनापासनेन रागादिक्षये निर्दोषज्ञानमुपैति । वक्ष्यति च (श्लो. १०८ ) " बुद्धिर्ज्ञानेन शुद्धयतीति "। तपः कृच्छ्रचान्द्रायणादि तत्पातकोपपातकानां शुद्धिहेतुः । अग्निम॒न्मयादिषु " पुनःपाकेनेति " ( श्लो. १२१)। आहारः पवित्राणां पयोमूलानां सोऽपि ता इव
शोधयति । मृद्वारिणां शुद्धिहेतुता प्रसिद्धैव । मनसो वक्ष्यते " मनः सत्येनेति " । २० (श्लो. १०८) । उपाञ्जनं मठादेः सुधागोमयादिना संमार्जनानुलेपने । वायुश्चण्डालादि
स्पृष्टे तृणकाष्ठादौ रथ्यापतिते । कर्माणि संध्योपासनादीनि । उक्तं च ( अ. २ श्लो. १०२ ) " पूर्वी संध्यां जपंस्तिष्ठेनैशमेनो व्यपोहतीति"। एतच्च द्वितीये व्याख्यातम् ।
सत्यपि तपसः कत्वे प्राधान्यख्यापनार्थ पृथगुपदेशः प्रायेण च शास्त्रे भेदेनैव कर्मणस्तपो निर्दिश्यते " कर्मनिष्ठास्तपोनिष्ठा " इति ( याज्ञवल्कीये २५ आचारे. २२१ ) ॥ १०४ ॥
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ॥
योऽर्थे शुचिहि स शुचिर्न मद्वारिशुचिः शुचिः ॥१०५॥ १अ-क-ख-ड-क्ष- घृतप्राशनं च शुद्धिहेतुः । २ अ क ख ड क्ष-शोषयति ।
For Private And Personal Use Only