________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च ॥
सद्यः संतिष्ठते यज्ञस्तथाऽऽशौचमिति स्थितिः ॥ ९७ ॥ येन शस्यते हन्यते तच्छखम् । अतः पाषाणलगुडादिनाऽपि हतस्य यज्ञसंस्था निष्पद्यते नायुधैरेव खड्गादिभिः । आहूयन्ते यत्रेतरेतरं स्पर्धमाना युद्धाय स आहवः संग्रामः । क्षत्रधर्मः अपराङ्मुखत्वं प्रजार्थं प्रभुप्रयुक्तं च । सद्यः संतिष्ठते समाप्तिमेति । ५ यज्ञो ज्योतिष्टोमादिस्तत्पुण्येन युज्यत इति यावत् आशौचमपि सद्य एव ।
अत्र केचित् क्षत्रधर्महतस्येत्यनेन सद्य इत्यभिसंवघ्नन्ति । ततश्च यः संग्रामभूमौ मृतः तस्यैवायं विधिर्न तु योऽन्येद्युस्ततोऽन्यत्र गतस्तदेतद्विचार्यम् ॥ ९७ ॥
विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।।
वैश्यः प्रतोद रश्मीन्वा यष्टिं शुद्धः कृतक्रियः ॥ ९८॥ १० दशाहादीनां कल्पानां परिपूर्ण आशौचकाल इदमपरं कर्तव्यम् । अपः स्पृष्ट्वेति स्नानमुपदिश्यत इति प्राग्व्याख्यातम् । कृतक्रिय इति क्षत्रियादिभिरभिसंवध्यते । क्रिया च स्नानमेव अन्यस्याश्रुतत्वात् । स्नात्वा वहनादीनि स्पृशेयुः । अन्ये तु श्राद्धक्रियामाहुः । श्राद्धादि कृत्वा सर्व एव विशुध्यति । तत्रापि ब्राह्मण उदकं हस्तेन स्पृष्ट्वा क्षत्रियादयस्तु वाहनादिभिः ॥ ९ ॥
एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः॥
असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ ९९ ॥ पूर्वोत्तरवस्तूपसंहारोपपत्युपन्यासार्थों पूर्वोत्तरावर्धश्लोकौ ॥ ९९ ।।
असपिण्डं द्विजं प्रेतं विभो निर्दृत्य बन्धुवत् ॥ विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ १० ॥
२० बन्धुवदिति धर्मेण न मूल्येन । मातुराप्तांश्च आप्तग्रहणं प्रत्यासन्नबान्धवमातुलादिग्रहणार्थम् । अस्माच्चानुमीयते असपिण्डः असमानोदको न सर्वसपिण्डादन्यः ॥ १० ॥
यद्यन्नमत्ति तेषां तु दशाहेनैव शुद्धयति ।
अनदन्नन्नमन्हैव न चेत्तस्मिन्गृहे वसेत् ॥ १०१॥ अनश्नतो निवसतश्च पूर्वोक्तस्त्रिरात्र एव । अनश्नतो न निवसतश्च एकाह एव । २५ अश्नतः निवसतश्च दशाह एवं ॥ १०१ ॥
१ अ-क-ख-ड-क्ष-रश्मि वा । २ फ-स्नानत्वा । ३ ड-सर्वोऽसपिंडादन्यः । अ-क-ख-क्षसर्वासपिण्डान्यः । अ-क-ख-ड-क्ष । अनिवसतोऽप्यश्नत. दशाह एवेति चतुर्थः प्रकारः। स तु गोविन्दराजेन दर्शितः ॥
For Private And Personal Use Only