________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
मेधातिथिमाष्यसमलंकृता।
[पंचमः राज्ञो माहात्मिके स्थाने सद्यः शौचं विधीयते ॥ प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥ ९३ ॥
महानात्मा यस्य स्थानस्य तन्माहात्मकं यस्मिस्थाने स्थितस्य पुंसः प्रजानां परिरक्षा । माहात्म्यं तदेव उच्यते । तच्च प्रजैश्वर्यम् । यदाह"आसनं चात्र कारणमिति"। तदुक्तम् । नात्र जातिमात्रं किंतु प्रजापालनाधिकारः। आसनशब्दोपीह नासनशय्यादिवचनः । अपि तु तत्पदं प्राप्तवतो यत्कर्तव्यं तदाह । अतः अक्षत्रियोऽपि यदि प्रनापालने समर्थः तस्याप्याशौचाभाव एव पूर्व्याख्यातः । प्रजानां परिरक्षार्थमिति । न सर्वेण सर्वाशौचनिवृत्तिः किंतर्हि प्रजापालनविरोधि यदाशौचधारणं तन्निवर्तते । यथा
दुर्भिक्षादौ स्वकोशादन्नदानेन प्रनाभरणम् । तथा दिव्यन्तरिक्षभौमेषत्पतिषु शान्तिः । १० अकस्मात्सम्यैः कर्तव्येन राज्ञा अथवा .मेषु द्विजातीनां धर्मसंशयसत्त्वेन प्रथमेज्यादावप्यस्ति प्रवक्तृत्वं तदपि प्रयोजनम् ॥ ९३ ॥
डिम्बाहवहतानां च विद्युता पार्थिवेन च ॥ गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥ ९४ ॥
डिम्बो बहुजनसंकुलः अशस्त्रकलहो वा । आहवः संग्रामो युद्धं तत्र हतानां १५ सद्यः शौचम् । विद्युदशनिः एतव्याख्यातम् । पार्थिवः पृथिव्या ईश्वरश्चातुर्वर्ण्यस्य
यः कश्चित । ब्राह्मणार्थे गवार्थे च युद्धादन्यत्रापि जलाग्निदंष्ट्रिहतस्य । यस्य चेच्छति पार्थिवः स्वकार्यार्थपरिपालनाधिकृतस्य । कुत एतद्यतो राज्ञां परिपालन एवाशौचनिवृत्तिस्तत्र कुतोऽन्यस्याविशेषेण तदिच्छया विनिवृत्तिः स्यात् ॥ ९ ॥
सोमान्यानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च ॥
अष्टानां लोकपालानां वपुर्धारयते नृपः ॥ ९५ ॥
वपुस्तेजोऽशः । वित्तपतिर्वैश्रवणः । अपांपतिर्वरुणः । अत्रैव द्वितीयोऽर्थवादः ।। ९५ ॥
लोकेशाधिष्ठितो राजा नास्याशाचं विधीयते ॥
शौचाशौचं हि मानां लोकेशप्रभवाप्ययम् ।। ९६ ॥ २५ एतैलोकेशैरधिष्ठितो राजा नास्य शौचाशौचम् । यतो मानां मनुष्या
णामाभ्यामधिकारः । तयोश्च प्रभवाप्ययौ प्रवृत्तिनिवृत्ती लोकेभ्यः सकाशान्मयानां न तु लोकेशानामेव ।। ९६ ॥ १ फ-माहात्मं तदेवमुच्यते । २ फ-अतश्च । ३ फ-श्रमेषु । ४ फ-युद्धः ।
२०
For Private And Personal Use Only