________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
४३१ तस्माच्छ्रेयः संपन्नं पापीयानन्वेतीतवत्तदपि पुंसः प्रतिषिद्धत्वात्पाक्षिकेनानुवादेन सालम्बनमिति न किंचित् । स्त्रीणामपि देवान्नशेषमाज्यादिप्राशनमस्त्येव वेदोदाहरश्च दर्श. पूर्णमासादिषु " विदेयकासीति " । न च श्राद्धस्य कर्तुः सुरां पाययेदिति चोदनया तासां पानमनुमीयते । ब्रह्महत्यादानेनैव ग्रहः तस्माज्जातिमात्रस्य प्रतिषेध इत्येष एतस्यां विप्रतिपत्तौ निर्णयः ॥ ९ ॥
आचार्य स्वमुपाध्यायं पितरं मातरं गुरुम् ॥
निर्दृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ ९ ॥ स्वग्रहणमाचार्यविशेषणं मन्यते । “ गुरोर्गुरौ संनिहित"( अ. २ श्लो. २०५ ) इत्यतिदेशात्तदाचार्येऽपि प्राप्ते प्रतिषेधः । अन्ये तु स्वशब्दं बान्धववचनं व्याचक्षते । अत्र तु पितरं मातरमिति न वक्तव्यं नित्यार्थ त्वभिधानमिति गुरु: " अल्पं वा बहु १० वाऽपि " ( अ. २ श्लो. १४९ ) इत्यनेन य उक्तः । एतान्निहरतो व्रतवियोगो नास्तीति श्रुतसामर्थ्यादर्शयति । अन्यान्निईत्यानेन वियुज्यत इति पदार्थसिद्धिः ॥ ९० ॥
दक्षिणेन मृतं शर्त पुरद्वारेण निहरेत् ॥
पश्चिमोत्तरपूर्वस्तु यथायोगं द्विजन्मनः ।। ९१ ॥ १५ पुरद्वारेणेति पुरग्रहणं ग्रामादीनामप्युपलक्षणार्थम् । यत्रानेकद्वारसंभवस्तत्रायं नियमः । यो यत्रेष्टे तस्यायमुपदेशः । अमङ्गल्यत्वाच्च शूद्रादारभ्य क्रमेणोपदिष्टम् । अतश्च यथायोगामिति वैश्यक्षत्रियब्राह्मणाः पश्चिमादिभिर्यथासंख्यं संबन्धनीयाः ॥९॥
न राज्ञामघदोषोऽस्ति तिनां न च सत्रिणाम् ॥
ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा ॥ ९२ ॥ २० राजशब्दो यद्यपि क्षत्रियनातौ वर्तते तथापीह ऐन्द्रं स्थानमुपासीना इति कारणस्योपादानाज्जनपदेश्वरवचनो लक्षणया विज्ञायते । उत्तरश्लोके निपुणं वक्ष्यामः । व्रतिनो व्रतचारिणः चान्द्रायणादिस्थाश्च । सत्रिणो गवामयनिका अन्यस्मिन्या यज्ञे दीक्षिताः । तथा च गौतमः " ऋत्विग्दीक्षितब्रह्मचारिणामिति " । अत्रार्थवादः ऐन्द्र स्थानमाधिपत्यं पदं प्रनैश्वर्यमुपासीनाः कुर्वाणा राजानो ब्रह्मत्वं प्राप्ताः । व्रतिनः २५ सत्रिणश्च । अघदोषमाशौचम् । अन्ये तु सततदानप्रवृत्तान्सत्रिणो मन्यन्ते । मुख्ययाऽनुवृत्त्या ऋतुविशेष वर्तते ॥ ९२ ॥
१फ-वैश्वदेविकर्मासीतेति । २ फ-दाविवः नैवं प्रतिग्रहस्त । ३ अ. १४ सू. १ ।
For Private And Personal Use Only