________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३० मेधातिथिभाष्यसमलंकृता ।
[पंचमः स्तद्विशेषणद्वारेणान्वयं प्रतिपद्यत इत्युपपन्नमन्विताभिधानं तेन भावार्थस्य सविशेषणस्याविधेयत्वाल्लौकिकी प्रवृत्तिरभ्युपेतव्या । अस्ति च रागलक्षणा प्रवृत्तिन तस्या लिङ्गसंख्यानियमोऽस्ति द्वेषाद्वा तस्मादविधेयार्थशब्दोऽवगतार्थपरत्वादभिधानं शक्तिमृत्सृज्य प्रमाणान्तरतो यथावधृतस्वरूपमर्थ लक्षयति । तत्र लिङ्गसंख्ययोस्तात्पर्यतः शब्देनानभिधानात्कुतो विवक्षा केवलं प्रातिपदिकनिर्देशार्थ येन केनचिद्वचनेन निर्देशः कर्तव्यो न केवला प्रकृतिः प्रयोक्तव्येति तदर्थ लिङ्गसंख्ययोरुपादानम् ।
___ अत इयमत्रावगतिः हननेऽध्यवसितकर्तृभावः स नअर्थे नियुज्यते । अतः प्रतिषेधवाक्ये द्वितीयाश्रतिरविवक्षयों नातन्त्रं यथापि हि तृतीया श्रूयते प्रथमा वा ब्राह्मणेन
न पातव्या ब्राह्मणो न पिबेदिति तत्रापि तदर्थश्चान्यतः प्राप्तेरविधेयत्वादनूद्यते । १० या अधिकारविशेषणत्वेनैव संबध्यते । एते द्वितीयाविशिष्टे प्रथमातृतीये । सत्यामपि च
द्वितीयाश्रुतौ यदप्राप्तं तद्विधेयत्वाद्विवक्ष्यते यथा “भार्यामुपगच्छेत्" "अपत्यमुत्पादयेदिति" न हि लौकिको भार्यार्थः । उपयमनेनैव तत्सिद्धेः । नापि वाक्यान्तरे विधिना क्वचिदुपात्तो येन यथावगममुद्दिश्येत यथाऽश्विनं गृह्णाति मैत्रावरुणं गृह्णाति दशैतानध्वर्यु
गेहातीति संख्याविशिष्टा एव ग्रहा उपादीयन्ते । अतो निज्ञातसंख्यत्वात्समार्गविधौ १६ यथासंख्यावगमं निर्दिश्यते । अत्र पुनर्वाक्यान्तराभावादस्यैवोत्पत्तिवाक्यत्वाछूतसंख्यापरित्यागे
प्रमाणाभावान्निरपेक्षाभिधानशक्तिसमर्पितस्यैकस्य परित्यागः पुरुषबुद्धिप्रभव एव स्यात् । एवं पशना यजेतेति यागविषयत्वाद्विधेस्तस्य च साध्यस्वभावत्वात्सधनाकांक्षायां समर्पितसविशेषणकारितसहितस्य विधेयत्वे यद्यर्थमात्रे विधिव्यापारापरिसमाप्तेः स्वार्थपरशब्दाभिहिता
पेक्षितस्वार्थाः किमिति नयन्ति । प्रमाणाशास्त्रविदस्तु स्वयं विधिविदिति अन्योक्तमवगा२० हन्ते । यत्त्वस्माभिरुक्तं तत्सुखोपायग्राह्यं नातिमहती व्युत्पत्तिरत्रोपयुज्यते । इयदेव चं
तत्सारम् इयती सा विद्याऽनुष्ठानोपयोगिनी यदधिकमाहोपुरुषिकामात्रं तदर्थवाद एव । तत्र ह्यर्थवादाद्विशेषावगतिर्भवति यत्राकांक्षाविधेरनिवृत्तिरिति यथोक्तमुपदधातीति । बहुषु भोजनसाधनेषु सर्पिस्तैललवणादिषु सत्सु केनेत्यनवसाये घृतेनेति गम्यते । यथा तु
रात्रिष्वनुष्ठानाश्रवणादाकांक्षायां प्रतितिष्ठन्तीत्यर्थवादः । अतः प्रतिष्ठाकामस्येति गम्यते । २६ इह पुनर्ब्राह्मणा इतिपरिसमाप्तत्वात्पदार्थस्य निवृत्तकांक्षेति स्तुतिमात्रापेक्षयाऽर्थवादः।
अथ लिङ्गदर्शनमात्रतयोपन्यस्यते " देवानामश्नता हविरिति " (अ. ११ श्लो. ९५)
१ फ-तात्पर्यन्तः । २ फ-अविवक्षायामतन्त्रं । ३ फ-तदर्थस्य । भन्यतः प्राप्तिः ४ फ-श्रुतैः फदप्राप्तः । ५ फ-विधिं विन्दति । ६ फ-इयदेववत्तत्सारंद्रयती सा । ७ ड-विध्यनुष्टानात् ।
For Private And Personal Use Only