SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ४२९ चारकुलस्थितित्यागेनेच्छामात्रानुवृत्त्येकानेकपरपुरुषसंप्रयोगः कामचारः । भतुर्विषगरादिदानेन गर्भस्य च पातनं द्रोहः । सुराप्यः यथाप्रतिषेधं प्रतिषिद्धायाः पानेन । अत्र कश्चिदाह ब्राह्मणो न पिबेत्सुरामिति । सत्यपि जात्याविशेषे लिङ्गात्पुंस एव ब्राह्मणस्य प्रतिषेधो न स्त्रिया इति । यद्यपि स्त्रीपुंसयोरेका जातिस्तथापि स्त्रीत्वपुं. स्त्वलिङ्गे भिद्यते । इह च ब्राह्मण इति पुल्लिङ्गस्य शब्दस्य श्रवणादश्रुतायाः कः प्रसङ्गः। ५. यथा ब्राह्मणी पाययेत्पुत्रार्थमिति न पुंसः पाययेदिति तद्वत्पुंल्लिगश्रुतौ न स्त्रिय उपादीयन्ते । क्वचिल्लिङ्गं न विवक्ष्यते । यथा ब्राह्मणो न हन्तव्य इति स्त्रिया अपि प्रतिषेधो विज्ञायते । तत्र द्वितीयया श्रुत्या ब्राह्मणस्येप्सिततमत्वात्प्राधान्यम् । न च प्रधाने प्रातिपदिकार्थव्यतिरेकेणान्यलिङ्गसंख्यादि विवक्ष्यते । यथा 'ग्रहं संमार्टीति' नैकस्य संमार्गः । इह पुनर्ब्राह्मणेन सुरा न पेयेति कर्तृतया साधनभावेन क्रियां प्रतिनिर्देशात् १० ब्राह्मणो न पिबेत्सुरामित्याख्याताभिहितेऽपि तादर्थ्यतानामपि वृत्तेः प्रातिपदिकार्थोपपत्त्या प्रथमाऽपि तृतीयानुगुण्येति गुणभावात् गुणे च सर्व श्रुतं विवक्ष्यते । यथा 'पशुना यजेते' पुमान्पशुरालभ्यते एकश्च ।। अत्रोच्यते । नात्र द्वितीयातृतीये गुणप्रधानभावेनाविवक्षाविवक्षयोः कारणं किंतर्हि प्राप्त्यप्राप्ती यदप्राप्तं विधिविषयतयोपपद्येत तद्विवक्ष्यते । अनन्यपरशब्दावगम्यत्वात् । १५ यत्त्वन्यतोऽवगतमर्थान्तरं विध्यर्थमुपादीयते तद्यादृशमेव प्रमाणान्तरावगतं तादृशमेव विधेयकार्यान्तरसंबन्धितया शब्देन प्रतिपाद्यते । ब्राह्मणो न हन्तव्य इत्यत्र वाक्ये विधि': प्रतिषेध एव पर्यवस्यति यदन्यत्तदन्यतोऽवगतम् । प्रातिपदिकार्थविवक्षा तु श्रत्यानर्थक्यप्रसंगात् । लिङ्गसंख्यादेस्तु प्रत्ययार्थस्य नान्तरीयकत्वेनाप्युपादानसंभवाद्विवक्षाविवक्षे उच्यते । तत्रेह न ब्राह्मणादिभिः पुरुषो विधिना प्रवर्त्यः । तद्वेषात्स्वतः २० प्रवृत्तेः । तत्सर्वस्य चात्र स्वयं प्रसंगात् । न ह्यविधीयमानः प्रतिषेधः कथंचिदन्वेतुमलम् । अन्यतः प्राप्त्यभावात् । अकारकत्वादकारकविशेषणत्वात्स्वभावानुप्रवेशेनापि संबन्धं लभ्यते । तस्मादस्यान्वयसिद्धयर्थ विषयभाव एषितव्यः । तस्मिंश्च विधिना विषयीकृतेन भावार्थो विषयतयाऽपेक्ष्यते । भावार्थश्च प्रतिषेधेन विषयांशस्य गृहीतत्वात्ततः प्रच्यतलौकिक्या च प्रवृत्त्या सिद्धानुष्ठान आत्मविधिसिध्यर्थमनुप्रवेशमप्यकांक्ष- २६ न्नधिकारमात्रसापेक्षविधौ प्रमाणान्तरतः प्रतिपन्नहननकर्तृभावस्य पुंसोऽधिकारतां प्रतिपादयं १फ-तादीनामनिवृत्तेः।२ फ-गुणेति । ३ फ-विप्रतिषेध एव । ४ अ-क-ख-ड-क्ष-नु । ५ फतेद्वेषात् । ६ क-तत्सर्वस्य वा नस्तुय प्रसऽगान्। अ ड-तत्सर्वं सर्वानस्तुप्रसङ्गात्।७ अ-क-ख-ड-क्ष-लभत। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy