________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
अतस्तद्विपरीतस्यानुज्ञानं भवति । स्मृत्यन्तरेष्वन्येषामप्युदकक्रियानिषेधो विहितः । यथोक्तं “राजभिर्निहतानां च शृंगिदंष्ट्रिसरीसृपैः । आत्मनस्त्यागिनां चैव श्राद्धमेषां न कल्पयेत् ॥
“ उदकं पिण्डदानं च प्रेतेभ्यो यच्च दीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥
I
" नारायणबलिः कार्यो लोकगर्हाभयान्नरैः । तस्मादेम्योऽपि दातव्यमन्नमेव सदक्षिणम् " ||
तथाऽन्यत्र
("
Acharya Shri Kailassagarsuri Gyanmandir
चण्डादकात्साह्मणाद्वैतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् "॥
तथा चोक्तम्
"नृणां चैवाग्निदानां च स्नानालंकारकारिणाम् । तप्तकृच्छ्रद्वये शुद्धिरश्रुपातेऽनुयायिनाम् ॥ “तेनोद्दिष्टं न चैवान्यैः कार्यमस्यौर्ध्वदेहिकम्। न च नामापि कर्तव्यं तद्वंशस्य तदीयकम् ॥ “अत्यन्तनरकस्थस्य तस्य पापीयसोऽधिकम् । कारणं कीर्तनं नाम सर्वे चैव भयावहम् ॥ १० संवर्तेन स्वेव क्रियासु सान्तपनमाम्नातम् । पराशरेण तप्तकृछूं वसिष्ठेन तप्तकृच्छ्रसहितं चान्द्रायणम् । तत्रापूर्वादिविशेषा उपेक्ष्याः ।
४२७
For Private And Personal Use Only
यदुक्तम् ‘चण्डालादुदकात्' इत्याद्युपक्रम्य 'मरणं पापकर्मणामिति' तत्रेदं सन्दिह्यते । किं यश्चाण्डालादिर्बुद्धिपूर्वमात्मानं घादयति तस्यायं विधिरौर्ध्वदेहिका करणं तत्करणे च प्रायश्चित्तमुत प्रमादहतस्यानिच्छत इति । कुतः संदेह इह गौतमेन " प्रायानाशकशस्त्राग्नि- १५ विषोदकोद्बन्धनप्रपतनम्"इत्युक्तम् (अ. १४सू ११)। इह चाविशेषेण श्रुतं ' चण्डालादुदकात् " इति । तत्र स्मृत्यन्तरेणैकशास्त्रत्वादुदकादित्यत्र तावदवश्यामिच्छतामिति संबध्यते । साहचर्यादन्यत्रापि तथैवेत्याशङ्का जायते । किंच पापकर्मणामिति श्रूयते । पापं च कर्म प्रतिषिद्धम् । अत्र प्रतिषिद्धं योऽनुतिष्ठति स पापकर्मेत्युपपद्यते । अनुष्ठातृत्वं च स्वव्यापारेण परप्रयोक्तृतया च । तत्र न वैद्युतदंष्ट्रिशृङ्गयादयः । ते च न प्रयुज्यन्ते । नापि ते २० वोदकखङ्गादिस्थानीयाः । येन तदुपादानेनात्मानं घ्नन् स्वतन्त्रः कर्ता स्यात् । किंतीर्ह यस्येदृशं मरणमुपनतं स पूर्वजन्मनि कृतपापक इति शास्त्रेण ज्ञाप्यते । यथा श्यावदन्तप्रभृतयस्तत्रापि किमेतेन ज्ञापितेन । अङ्गहीनादीनां पूर्वपापसंबन्धित्वं ज्ञाप्यते । प्रायश्चित्तमनुष्ठेयं यथा वसिष्ठेनोक्तम् । कस्यचित्कृच्छ्रद्वयचरणं कस्यचिदभ्य
१ ड -अश्रुपातेन यायिनाम् । २ ख-ड-तत्र पूर्वादि-1