SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२१ मेधातिथिभाष्यसमलंकृता। [पंचमः मन्वाहिकं कुर्याद्देवपितृतर्पणामिति । आ व्रतस्येति आ समावर्तनादित्यर्थः । न पुनरान्तरालिकसाहसिकादित्यर्थः । व्रतचरणसमाप्तेः समावृत्तः स सर्वेषामेकैकस्योदकं कृत्वैकस्मिनहनि त्रिरात्रमाशौचं कुर्यात् । मातुस्तूदकदानं वतिनोऽपीष्यते न च व्रतलोपः । स्मृत्यन्तरमुदाहरन्ति । अपराध्य आदिष्टी नोदक इति ॥ १७ ॥ वृथासंकरजानां प्रव्रज्यासु च तिष्ठताम् ॥ आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ॥ ८८ ॥ जातशब्दः प्रत्येकममिसंबध्यते । वृथाजातो यो न देवानर्चयति न पितृन्न मनुष्यानिति । सत्यधिकारेऽनाश्रमी । हुताहुतपरित्यक्तः । ' संवत्सरमनाश्रमी भूत्वा' इत्यादि चिरकालावस्थाने महादोषश्रवणात् । ब्रह्मचारिपरिबाजकाभ्यामन्यस्य परपाकरतित्वम् आत्मार्थस्तु पाको निषिद्धः। संकरजाता इतरेतरजातिव्यतिकरण प्रतिलोमा आयोगवादयः। निन्दितत्वाद्वृथानातसाहचर्येण । अनुलोमास्तु सत्यपि संकीर्णयोनित्वे मातृनातीयत्वादधिकारित्वाच्च नेह गृह्यन्ते । न चानुलोमेषु संकीर्णयोनिव्यवहारः । “ संकीर्णयोनयस्त्वेताः प्रतिलोमानुलोमना" इति । अनियुक्तासुतादयश्चानेकपुरुषसंसर्गनाः । वेश्याजाताश्च । पारस्त्रैणेयास्तु असत्यनेकपुरुषसंसर्गेणे संकरजाताः । अयं च सपिण्डानां निषेधो न तत्पुत्राणामिति केचित् । आत्मत्यागिनां तु पुत्राणामपि तदुक्तमविशेषश्रवणात् । प्रव्रज्यासु बाह्यासु भगालवरक्तपटाद्यास्वनधिकाराबहुवचननिर्देशान्न व्रतादिदर्शनभेदेन बाह्याः । _ आत्मनस्त्यागिनां पुरुषाणामायुषोऽक्षये स्वेच्छया शरीरं त्यजन्ति वृद्धानाम चिकित्स्यमहाव्याधीनां च भिषक्प्रत्याख्यातानामिष्यत एव । यथोक्तम् । २० "वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषविक्रयः।आत्मानं घातयेद्यस्तु भृवन्यनशनाम्बुभिः।।" "तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसंचयः । तृतीये तूदकं कृत्वा चतुर्थ श्राद्धमाचरेत्॥” इति। कुष्ठ्यादेस्तुं व्याधिगृहीतस्य इष्यत एव । यथोक्तं लुप्तचेष्टस्य गृहस्थावस्थायामपि " महाप्रस्थानगमना वृथा नेच्छन्ति जीवितुम् " । लुप्तचेष्टश्चोच्यते यः शौचादिष्वसमर्थः २५ संध्योपासनादिषु च । अपरिक्षीणशरीरो वा । सादयेद्यस्त्वात्मानमलुप्तचेष्टो वा । १ अ-क-ख-ड-क्ष-आंतरालिकमाहनास्त्रिकादित्यर्थः । २ फ-संसर्गे । ३ अ-क-ख-ड-क्ष-भगात् धररक्तपटासु । ४ फ-निर्देशात् । व्रतादि दर्शनभेदेन । ५ फ- आयुषोक्षये । ६ ड-वा । ७ फ-कुष्ठयादेः । क्षुयाधिगृहीतस्य। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy