SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुस्मृतिः। अध्यायः ] ४२३ क्षत्रियादीनां प्रागुक्तवृत्ताद्यपेक्षत्यहचतुरहादिकल्पव्यावृत्त्यर्थमिदम् । ब्राह्मणे दशाहस्त्वनूद्यत एव । अत्र विदं वाक्यं केन क्षत्रियादीनां द्वादशाहेन नियतकालाप्राप्तिर्येन कल्पान्तरल्यावृत्त्यर्थताऽवगम्यते । इयमेव ह्येषामियत्कालस्य प्रापकं सत्य- ५ स्मिंस्तत्र दशाहोऽयमाशौचकालस्तदुपलक्षणार्थो विज्ञायते । ननु च सत्यप्यस्मिंस्तस्योपलक्षणार्थता सत्यपि चातुर्वण्यधिकारे यस्यैव दशाह उक्तस्तस्यैवेतरे कल्पा इति । स्मृत्यन्तरे च ब्राह्मणविवक्षयैवोक्तम् " एकोहाब्राह्मणस्य स्यात्स्वाध्याय " इत्यादि । तेषा तु स्मृत्यन्तरे यानि कल्पान्तराण्याम्नातानि विकल्पन्ते । एकादशे आशौचकालः कश्चिद्विवरणकार आह " शुद्धयेद्विप्रो १० दशाहेनेति " । अत्राहर्ग्रहणं विवक्षितं तेन दशम्यां रात्रौ नास्त्याशौचम् । ततः पूर्वेयुनिमन्त्रणादि युक्तम् । अग्निं चाधास्यतः पौर्वाह्निकजागरणादिनाऽऽशौच उपक्रान्तं भविष्यति । तदयुक्तं अहर्विवक्षा यामाद्यास्वपि रात्रिषु न स्यादाशौचम् । अथ दशाहं शावमिति एतस्मात्तत्र भविष्यति । अत्राविवक्षायां किंप्रमाणं तस्मादहःशब्दोऽयमहोरात्रवचन इति प्रदर्शितम् । तथा च पूर्वश्लोकेऽहः कृत्स्नमिति रात्रिनिवृत्यर्थं १५ कृत्स्नग्रहणम् ॥ ८२॥ न वर्धयेदघाहानि प्रत्य्हेनाग्निषु क्रियाः॥ न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥ ८३ ॥ यस्यैषा बुद्धिः । य उक्ताख्यहादयः कल्पास्तुल्यं दशाहेन विकल्प्यन्ते । न वृत्तादिव्यवस्थयेति ततश्चिरतरकालमन्यस्य संभवे किमित्येकाहपक्षं नित्यस्वाध्याया- २० क्लेशकरं प्रतिपत्स्ये दशाहमपाश्रयामि निष्कर्मसुखमासिष्य इति तं प्रति सौहार्दैन सा व्यवस्था स्पष्टीक्रियते । नैते तुल्या अपि तु व्यवस्थिता एव । व्यवस्था च प्राग्दर्शिता । अन्यथा यस्याशौचकालो विहितस्तस्य ततः कालावधिकस्य कुतो वृद्धिप्राप्तिः । येनैवमर्थवत्स्याद्विस्पष्टार्थत्वे को दोषः। अन्ये त्वाहुरतीतेष्वप्यहःसु यावत्स्नानादिक्रिया न कृता तावन्नैव शुद्धिः " विप्रः २६ शुध्यत्यप " इत्यादि वक्ष्यति । तत्राशुचित्वादनुष्ठानेन दुप्यामीति स्नानादिषु शुद्धये न प्रवर्तते तत्रैवमुच्यते । न वर्धयेन्नातीतेष्वहःसु बाह्याशौचे विलम्बितव्यम् । ये त्वहःशब्दो १ ड-एकाहान् । २ अ-क-ड-अध्यस्यतः । ३ अ-क-ड-क्ष-ख-स्वाध्यायक्लेशकरम्। ४ श्लो. ९९ । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy