SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ४२१ समानोदकानामयं विधिस्यहकाहपक्षे च सपिण्डानामपि । सवासा वाससा सहितः । जलमाप्लुत्य स्नात्वेत्यर्थः ॥ ७६ ॥ बाले देशान्तरस्थे च पृथपिण्डे च संस्थिते ॥ सवासा जलमाप्लुत्य सद्य एव विशुध्यति ॥ ७७ ॥ बालेऽदन्तनाते सूनौ देशान्तरस्थे पृथपिण्डे । च संस्थित इत्येकार्थानि पदानि। ५ पृथक्षिण्डः समानोदक इति यावत् । तस्मिन् देशान्तरस्थे संस्थिते सद्यः शुद्धिः । संनिधौ " व्यहात्तूदकदायिनः " इत्युक्तम् ॥ ७७ ॥ अन्तर्दशाहे चेत्स्यातां पुनर्मरणजन्मनी ॥ तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥ ७८ ॥ अत्रापि दशाहग्रहणमाशौचकालोपलक्षणार्थम् । यस्य य आशौचकालस्तस्मिन्न- १० निवृत्ते यदि पुनरन्यदाशौचनिमित्तमुत्पद्यते तदा पूर्वशेषेणैव शुद्धिर्न त्वन्तरा निपतितं यत्तदीयादह्नः प्रभृति दशाहादिगणना कर्तव्या । तथा च गौतमः (अ. १४ सू. ५) " तच्चेदन्तःपुनरापतेत्तच्छेषेण शुद्धयेयुरिति " । मरणजन्मनी इति समासे यत्नमन्तरेण क्रमाप्रतिपत्तेय॑न्तरेणाप्युपनिपातनप्राप्ती समाचारात्समानजातीय एवेति द्रष्टव्यम् । पुनःशब्दश्च समानजातीयापेक्षया समर्थतरो भवति । विप्रग्रहणमप्याशौचिनामुपलक्षणार्थम्। १५ स्मृत्यन्तरे तु विहितं " रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिः" इति । एतस्य ब्राह्मणस्य प्रेतस्पर्शे दशरात्रमाशौचमिति प्रकृत्य " न चेदन्तरा म्रियेत जायेत वा शिष्टैरेव दिवसः शुद्धयेत " इतीयं स्मृतिः समाननातीयासमानजातीयभेदं नानुमन्यते ॥ ७८ ॥ त्रिरात्रमाहुराशौचमाचार्य संस्थिते सति ॥ तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः ॥ ७९ ॥ २० आचार्य उपनेता तस्मिन् संस्थिते त्रिरात्रं शिष्यस्य । तस्याचार्यस्य पुत्रे 'पन्यां च संस्थितायामहोरात्रम् ॥ ७९ ॥ श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् ।। मातुले पक्षिणी रात्रि शिष्यविग्वान्धवेषु च ॥ ८० ॥ वेदशाखाध्यायी श्रोत्रियः। उपसंपन्नः मैत्र्या प्रयोजनेन वा केनचित्संगतः २५ शीलेन युक्तो वा । पूर्व तु सब्रह्मचारिण्येकाहमगृहीतवेदे दृष्टम् । अभिधानकोशे तु १फ-अन्तर्दशाहे स्यातां चेत् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy