________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२० मेधातिथिमाप्यसमलंकृता।
[पंचमः मङ्गपरिघर्षणादिवर्जनम् । मांसाशनं च यावदाशौचं स्मृत्यन्तगत्प्रतिषिध्यते । एवं पठ्यते " न स्त्रियमुपेयुन मायेयुर्न मांसमश्नीयुः:" | गृह्यकारस्तु " व्यहमनश्नन्त आसीरन् क्रीतोत्पन्नेन वा वर्तेरन् " इत्याह । शयीरंश्च स्थण्डिले परसंगवर्नम् । सूतकेऽपि ब्रह्मचर्य स्मृत्यन्तरे प्रदर्शितम् ॥ ७२ ॥
सन्निधावेष वै कल्पः शावाशौचस्य कीर्तितः ॥ असन्निधावयं ज्ञेयो विधिः संबन्धिवान्धवैः ॥ ७३ ॥
संनिधौ यत्रासौ मृतस्तत्र तत्संनिधीयते । अन्ये तु प्रयाणकाले ये संनिहितास्तेषामेवायं विधिरित्याहुः । संबन्धिनः समानोदकाः । बान्धवाः सपिण्डाः । अन्ये तुं ग्रामान्तरे नगरान्तरेऽवस्थानमसंनिधानं मन्यन्ते तेषां च ॥ ७३ ॥
*विगतं तु विदेशरथं शृणुयाद्यो ह्यनिर्दशम् ॥ यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ ७४ ॥
देशो ग्रामान्तरादिः पूर्ववत् । विगतं मृतम् । अनिर्दशं उपलक्षणमेतद्यस्य य आशौचकालस्तच्छेषं तस्याशौचम् । पुनर्दशरात्रग्रहणं श्लोकपूरणार्थम् । उत्पत्त्यपेक्षया
जन्ममरणयोराशौचकालविकल्पेनावश्यमपेक्षा यदा सूतकाद्युत्पन्नं तदा प्रभृति दशाहादि१५ कल्पेन यदा सपिण्डैतिमिति । अतश्च यदाऽतिथिना ज्ञातं सूतकादि न तु गृहस्थेन
तदाऽप्यभोज्यमन्नं तथैवोत्पत्तिनिमित्तमात्रमिदमुभयोति । दशाहमाशौचिनां तत ऊर्व, त्रिरात्रैकाहाशौचिना तु सचैलस्नानजा सद्यः शुचिः ॥ ७४ ॥
अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् ॥ . संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्धयति ॥ ७५ ॥
यस्य यः कृत आशौचकालो दशाहादिस्तस्य तदूर्ध्व त्रिरात्रम् । यस्य तु व्यहैकाहादिस्तस्य तत ऊय सवाससः स्नानमात्रमेव । तथा चोत्तरत्र वक्ष्यति " सवासाः" इत्यादि । संवत्सरे अतीते अतिक्रान्ते स्पृष्ट्वैवापः स्नात्वा शुध्येदित्यर्थः । " हस्तेन च सपादेन " इत्यादिवचनात्सर्वाङ्गस्पर्शनं प्रतीयते तच्च स्नानमेव ।। ७५ ॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ॥ सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥ ७६ ॥ * [ मासत्रये त्रिरात्रं स्यात् षण्मासे पक्षिणी तथा । अहस्तु नवमादर्वार्ध्वं स्नानेन शुद्धयति ॥१॥]
.
१ श्लो. ७७ ॥
For Private And Personal Use Only